SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ६. ब्रह्मज्ञानसमीक्षा । २७ ६८१. एतेन- अन्यत्र घटाज्ञानत्वघटत्वप्रकारकप्रमात्वादिना नाश्यनाशकभावेऽपि प्रकृते ब्रह्माज्ञाननिवृत्तित्वेन ब्रह्मप्रमात्वेनैव कार्यकारणभावः, न तु ब्रह्मत्वप्रकारकेति विशेषणमुपादेयम्, गौरवादनुपयोगाद्विरोधाच-इत्यपि निरस्तम् , विशिष्टब्रह्मण एव संशयेन विशिष्टाज्ञाननिवृत्त्यर्थ विशेषोपरागेणैव ब्रह्मज्ञानस्य अन्वेषणीयत्वात् , शुक्तिरजतादिस्थलेऽपि विशिष्टाज्ञानविषयस्यैव अधिष्ठानत्वं क्लुप्तमिति अत्रापि अयं न्यायोऽनुसर्तव्यः। । ६८२. किञ्च, ब्रह्मणो निर्धर्मकत्वे तत्र विषयताया अप्यनुपपन्नत्वात् तद्विषयज्ञानत्वमपि तत्र दुर्लभम्। विषयता हि कर्मतेति तदङ्गीकारे तस्य क्रियाफलशालित्वेन घटादिवजडत्वापत्तेः, तद्विषयज्ञानाजनकत्वे च तत्र वेदान्तानां प्रामाण्यानुपपत्तिः । न च तदज्ञाननिवर्तकतामात्रेण तद्विषयत्वोपचारः, अन्योन्याश्रयात् । न च कल्पिता विषयता कर्मत्वाप्रयोजिका, वास्तवविषयतायाः कुत्रापि अनङ्गीकारात्, व्यावहारिक्याश्च तुल्यत्वात् । " ६८३. न च 'ब्रह्मणि ज्ञानविषयताऽसम्भवेऽपि ज्ञाने ब्रह्मविषयता तद्विम्बग्राहकत्वरूपाऽन्या वा काचिदनिर्वचनीया सम्भवतीति नानुपपत्तिः, विषयतैवाकारः प्रतिविषयं विलक्षणः, अत एव ब्रह्माकारापरोक्षप्रमाया एव अज्ञाननिवर्तकत्वम् , अज्ञानविषयखरूपाकारापरोक्षप्रमात्वस्य सर्वत्रानुगतत्वात् , न च-इदमित्याकारं घटाकारमिति-शङ्कितुमपि शक्यम् , आकारभेदस्य स्फुटतरसाक्षिप्रत्यक्षसिद्धत्वात्' इति वाच्यम् , ज्ञाननिष्ठाया अपि । ब्रह्मविषयताया ब्रह्मनिरूपितत्वस्यावश्यकत्वेन ब्रह्मणि तन्निरूपकत्वधर्मसत्त्वे निधर्मकत्वव्याघातात् , उभयनिरूप्यस्य विषयविषयिभावस्यैकधर्मत्वेन निर्वाहायोगात् । न च 'ब्रह्मण्यपि कल्पिविषयतोपगमे कर्मत्वेन न जडत्वापातः, स्वसमानसत्ताकविषयताया एव कर्मत्वापादकत्वात् , घटोदौ हि विषयता खसमानसत्ताका द्वयोरपि व्यावहारिकत्वात् , ब्रह्मणि तु परमार्थसति व्यावहारिकी विषयता न तथेति स्फुटमेव वैषम्याद्' इति वाच्यम् , 20 सत्ताया इव विषयताया अपि ब्रह्मणि पारमार्थिकत्वोक्तावपि बाधकाभावात् , परमार्थनिरूपितधर्मस्य व्यावहारिके व्यावहारिकत्ववद्यावहारिकनिरूपितस्य धर्मस्य पारमार्थिके पारमार्थिकताया अपि न्यायप्राप्तत्वात् । सत्ताद्युपलक्षणभेदेऽपि उपलक्ष्यमेकमेवेति न दोष इति चेत् ; विषयतायामपि एष एव न्यायः । एवञ्च अनन्तधर्मात्मकधर्म्यभेदेऽपि ब्रह्मणि कौटस्थ्यं द्रव्यादेशात् अव्याहतमेव । तथा च अन्यूनानतिरिक्तधर्मात्मद्रव्य- 25 खभावलाभलक्षणमोक्षगुणेन भगवन्तं तुष्टाव स्तुतिकारः "भवबीजमनन्तमुज्झितं विमलज्ञानमनन्तमर्जितम् । न च हीनकलोऽसि नाधिकः समतां चाप्यतिवृत्य वर्तसे ॥" [ द्वा० ४.२९] इति । ब्रह्माकाराया ब्रह्मविषयायाश्च वृत्तेर्निस्सारत्वोक्तिः ६८४. एतेन 'चैतन्यविषयतैव जडत्वापादिका, न तु वृत्तिविषयतापि, “यतो वाचो 30 निवर्तन्ते" [तैत्तिरी० २.४.१], “न चक्षुषा गृह्यते, नापि वाचा" [मुण्ड० ३.१.८ ], १ स्यैकनिष्ठत्वेन नि त । २ 'टादौ विष अब। ३ विषताया ब्रह्म त। ४ ववत् तन्निरूपितस्य तस्य पारत। ५ वेति चेत् विषय त। ६ कौटस्थ्यमव्याहतमेव त । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy