________________
ज्ञानबिन्दुप्रकरणम् ।
द्वितीयशक्तिविशिष्टाज्ञाननाशात् सञ्चितकर्म तत्कार्यं च नश्यति, ततस्तृतीयशक्त्या प्रारब्धकार्ये दग्धरज्जुस्थानीया बाधितावस्था जन्यते, इयमेव बाधितानुवृत्तिरिति चेत्, न, एवं सति घटपटादौ तत्त्वज्ञस्य न बाधितसत्त्वधीः, न वा व्यावहारिकपारमार्थिकसच्वधीरिति तत्र किञ्चिदन्यदेव कल्पनीयं स्यात्, तथा चं लोकशास्त्रविरोध इति सुष्टृक्तं 'हरिभद्राचार्यैः -
10
२६
25
"अग्निजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥
परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । परिकल्पिते च तत्त्वे भवभवविगमौ कथं युक्तौ ॥"
[ षोडशक १६.८ - ९]
इत्यादि । तस्माद् वृत्तेर्व्यावहारिकसत्तयापि न निस्तारः । प्रपञ्चे परमार्थदृष्ट्येव व्यवहारदृष्ट्यापि सत्तान्तरानवगाहनादिति स्मर्तव्यम् । ब्रह्मज्ञानं पुनर्निरस्य सिद्धसेनोक्त्योपसंहारः
६७९. किञ्च सप्रकारं निष्प्रकारं वा ब्रह्मज्ञानं अज्ञाननिवर्तकमिति वक्तव्यम्, आ 15 निष्प्रकारे ब्रह्मणि सप्रकारकज्ञानस्य अयथार्थत्वात् न अज्ञाननिवर्त्तकता, तस्य यथार्थत्वे वा नाद्वैतसिद्धिः, द्वितीयपक्षस्तु निष्प्रकारकज्ञानस्य कुत्रापि अज्ञाननिवर्तकत्वादर्शनादेवानुद्भावनार्हः । किञ्च निष्प्रकारकज्ञानस्य कुत्रापि अज्ञाननिवर्तकत्वं न दृष्टमिति शुद्धब्रह्मज्ञानमात्रात् कथमज्ञाननिवृत्तिः १ ।
९८०, न च 'सामान्यधर्ममात्राप्रकारकसमानविषयप्रमात्वं अज्ञाननिवृत्तौ प्रयोजकैम्, 20 अत्र प्रमेयमितिज्ञाने अतिव्याप्तिवारणाय सामान्येति, प्रमेयो घट इत्यादावतिव्या (वव्या) प्तिवारणाय मात्रेति, तेनेदं विशेषप्रकारे निष्प्रकारे चानुगतमिति निष्प्रकारकत्रह्मज्ञानस्यापि ब्रह्माज्ञाननिवर्तकत्वं लक्षणान्वयात् न च सामान्यधर्ममात्रप्रकारकज्ञानेऽव्याप्तिः, इदमनिदं वा, प्रमेयमप्रमेयं वा इत्यादिसंशयाद्यदर्शनात् सामान्यमात्र प्रकारकाज्ञानानङ्गीकारेण तदनिवर्तकस्य तस्यासङ्ग्रहाद्' इति वाच्यम्, निष्प्रकारकसंशयाभावेन निष्प्रकारकाज्ञानासिद्ध्या निष्प्रकारकब्रह्मज्ञानस्यापि तन्निवर्तकत्वायोगाद् । एकत्र धर्मिणि प्रकाराणामनन्तत्वे प्रकारनिष्ठतया निरवच्छिन्नप्रकारतासम्बन्धेन अधिष्ठानप्रमात्वेन तया तदज्ञाननिवर्तकत्वौचित्यात् । अधिष्ठानत्वं च भ्रमजनकाज्ञानविषयत्वं वा अज्ञानविषयत्वं वा अखण्डोपाधिर्वा । न च 'विषयतयैव तत्त्वं युक्तम्, प्रमेयत्वस्य च केवलान्वयिनोऽनङ्गीकारात् न प्रमेयमिति ज्ञानात् घटाद्याकाराज्ञाननिवृत्तिप्रसङ्गः' इति वाच्यम्, द्रव्यमिति ज्ञानात् तदीपत्तेरवा30 रणात् । न च ' तस्य द्रव्यत्वविशिष्टविषयत्वेऽपि घटत्वविशिष्टा विषयत्वात् तद्वारणम्, द्रव्यत्वविशिष्टस्यैव घटावच्छेदेन घटत्वविशिष्टत्वात् सच्चविशिष्टब्रह्मवत्, विशिष्ट विषयज्ञानेन विशिष्टविषयाज्ञाननिवृत्यभ्युपगमेऽपि च ब्रह्मणः सच्चिदानन्दत्वादिधर्म वैशिष्ट्यप्रसङ्गः ।
WOR
Jain Education International
१ च सर्वलोक त । २ तन्मात्र एव तत्त्वे - षोडशक । ३ ° कं प्रमे मु अ ब । ४ मितिज्ञानेऽव्याप्ति° अ ब । ५° प्रकारके ज्ञाने त । ६ °संशयादर्शनेन तदनिवर्तकस्य मु अ ब । ७ °यत्वमेव वा मुत । ८ तदापत्तेरनिवारणात् त ।
For Private & Personal Use Only
www.jainelibrary.org