________________
६. ब्रह्मज्ञानसमीक्षा। पगमः, सा च श्रवणाद्यभ्यासपरिपाकेन निवर्तते, ततो द्वितीयया शक्या व्यावहारिकसत्त्वं प्रपञ्चस्य प्रतीयते, वेदान्तश्रवणाद्यभ्यासवन्तो हि नेमं प्रपञ्चं पारमार्थिकं पश्यन्ति, किन्तु व्यावहारिकमिति, सा च तत्त्वसाक्षात्कारेण निवर्तते, ततः तृतीयया शक्त्या प्रातिभासिकसत्त्वप्रतीतिः क्रियते, सा च अन्तिमतत्त्वबोधेन सह निवर्तते, पूर्वपूर्वशक्तेरुत्तरोत्तरशक्तिकार्यप्रतिबन्धकत्वाच न युगपत्कार्यत्रयप्रसङ्गः, तथा च एतदभिप्राया श्रुतिः- “तस्याभिध्यानाद् योजनात् तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः" [श्वेता० १.१०] इति । अस्या अयमर्थः-तस्य परमात्मनोऽभिध्यानादभिमुखाद् ध्यानाच्छ्रवणाद्यभ्यासपरिपाकादिति यावत्, विश्वमायाया विश्वारम्भकाविद्याया निवृत्तिः, आद्यशक्तिनाशेन विशिष्टनाशात् , युज्यते अनेनेति योजनं तत्त्वज्ञानं तस्मादपि विश्वमायानिवृत्तिः, द्वितीयशक्तिनाशेन विशिष्टनाशात् , तत्त्वभावो विदेहकैवल्यः अन्तिमः साक्षात्कार इति यावत् , 10 तस्मादन्ते प्रारब्धक्षये सह तृतीयशक्त्या विश्वमायानिवृत्तिः। अभिध्यानयोजनाभ्यां शक्तिद्वयनाशेन विशिष्टनाशापेक्षया भूयः शब्दोऽभ्यासार्थक इतीत्यादि निरस्तम् , अभिध्यानादेः प्रागपरमार्थसदादौ परमार्थसत्त्वादिप्रतीत्यभ्युपगमे अन्यथाख्यात्यापातात् ।
७७. न च 'तत्तच्छक्तिविशिष्टाज्ञानेन परमार्थसत्वादि जनयित्वैव प्रत्याय्यत इति । नायं दोषः' इति वाच्यम्, साक्षात्कृततत्त्वस्य न किमपि वस्त्वज्ञातमिति प्रातिभासिकसच्चोत्पादनस्थानाभावात् । ब्रह्माकारवृत्त्या ब्रह्मविषयतैव अज्ञानस्य नाशिता, तृतीयशक्तिविशिष्टं तु अज्ञानं यावत्प्रारब्धमनुवर्तत एवेति ब्रह्मातिरिक्तविषये प्रातिभासिकसत्त्वोत्पादनादविरोध इति चेत् , न, धर्मिसिद्ध्यसिद्धिभ्यां व्याघातात् , विशेषोपरागेण अज्ञाते तदुपगमे च ब्रह्मण्यपि प्रातिभासिकमेव सत्त्वं स्यात् , तत्त्वज्ञे कस्यचिदैज्ञानस्य स्थिती 20 विदेहकैवल्येऽपि तदवस्थितिशङ्कया सर्वाज्ञानानिवृत्तौ मुक्तावनाश्वासप्रसङ्गाच ।
६७८. अथ दृष्टिसृष्टिवादे नेयमनुपपत्तिः, तन्मते हि वस्तुसत् ब्रह्मैव, प्रपञ्चश्च प्रातिभासिक एव, तस्य च अभिध्यानादेः प्राक् पारमार्थिकसत्त्वादिना प्रतिभासः पारमार्थिकसदाद्याकारज्ञानाभ्युपगमादेव सूपपाद इति चेत्, न, तस्य प्राचीनोपगतस्य सौगतमतप्रायत्वेन नव्यैरुपेक्षितत्वात् , व्यवहारवादस्यैव तैराहतत्वात् , व्यवहारवादे च व्यावहारिकं 2s प्रपञ्च प्रातिभासिकत्वेन प्रतीयतां तत्त्वज्ञानिनामत्यन्तभ्रान्तत्वं दुर्निवारमेव । अथ व्यावहारिकस्यापि प्रपञ्चस्य तत्वज्ञानेन बाधितस्यापि प्रारब्धवशेन बाधितानुवृत्त्या प्रतिभासः तृतीयस्याः शक्तेः कार्यम् , तेन बाधितानुवृत्त्या प्रतिभासानुकूला तृतीया शक्तिः प्रातिभासिकसत्त्वसम्पादनपटीयसी शक्तिरुच्यते, सा च अन्तिमतत्त्वबोधेन निवर्तत इत्येवमदोष इति चेत्, न, बाधितं हि त्वन्मते नाशितम् , तस्यानुवृत्तिरिति वदतो व्याघातात् । ३७ बाधितत्वेन बाधितत्वावच्छिन्नसत्तया वा प्रतिभासः तत्त्वज्ञप्रारब्धकार्यमिति चेत् तृतीया शक्तिय॑र्था, यावद्विशेषाणां बाधितत्वे तेषां तथाप्रतिभासस्य सार्वत्यं विनानुपपत्तेश्व,
४ 'कूलतृतीया अब ।
१ अन्तिमसाक्षात। २ शिष्टज्ञानेन अब मु। ३ ज्ञातस्य अब। ५ सार्वश्याभ्युपगम विना मुत।
ज्ञा०४ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org