________________
ज्ञानबिन्दुप्रकरणम् । वर्तकत्वात् , वृत्तेश्च कारणतावच्छेदकत्वेन दण्डत्वादिवत् अन्यथासिद्धत्वेन कारणत्वानङ्गीकारात् , अवच्छेदकस्य कल्पितत्वेऽपि अवच्छेद्यस्य वास्तवत्वं ने विहन्यते, यद्रजतत्वेन भातं तच्छुक्तिद्रव्यमितिवत् , तार्किकैरपि आकाशस्य शब्दग्राहकत्वे कर्णशष्कुलीसम्बन्धस्य कल्पितस्यैव अवच्छेदकत्वाङ्गीकारात् , संयोगमात्रस्य निरवयवे नभसि सर्वात्मना सत्त्वे। नातिप्रसञ्जकत्वात् , मीमांसकैश्च कल्पितहखत्वदीर्घत्वादिसंसर्गावच्छिन्नानामेव वर्णानां यथार्थज्ञानजनकत्वोपगमाद् , ध्वनिधर्माणां ध्वनिगतत्वेनैव भानात् , वर्णानां च विभूनामानुपूर्वी विशेषाज्ञानादतिप्रसङ्गात् वर्णनिष्ठत्वेन हस्वत्वादिकल्पनस्य तेषामावश्यकत्वात् , तद्वदस्माकमपि कल्पितावच्छेदकोपगमे को दोषः' इति मधुसूदनतपस्विनोऽपि वचनं विचारसहम्, मिथ्यादृग्दृष्टान्तस्य सम्यग्दृशां ग्रहणानौचित्यात्, नैयायिकमीमांसको"क्तस्थलेऽपि अनन्तधर्मात्मकैकवस्तुस्वीकारे कल्पितावच्छेदककृतविडम्बनाया अप्रसरात्, विस्तरेणोपपादितं चैतत् संमतिवृत्तौ। ६७५. न चोक्तरीत्या वृत्तेरवच्छेदकत्वमपि युक्तम् , प्रतियोगितया अज्ञाननिवृत्ती सामानाधिकरण्येन समानविशेष्यकसमानप्रकारकवृत्तेरेव त्वन्मते हेतुत्वस्य युक्तत्वात् । अत एव स्वयमुक्तं तपस्विना सिद्धान्तबिन्दौ-"द्विविधमावरणम् – एकमसत्त्वापादकमन्तःकरणाव15 च्छिन्नसाक्षिनिष्ठम्, अन्यत् अभानापादकं विषयावच्छिन्नब्रह्मचैतन्यनिष्ठम् , “घटमहं न जानामि इत्युभयावच्छेदानुभवात् । आy परोक्षापरोक्षसाधारणप्रमामात्रेण निवर्त्तते अनुमितेऽपि वढ्यादौ नास्तीति प्रतीत्यनुदयात् , द्वितीयं तु साक्षात्कारेणैव निवर्तते यदाश्रयं यदाकारं ज्ञानं तदाश्रयं तदाकारमज्ञानं नाशयतीति नियमात्" [पृ० २९१ ] इत्यादि । तत्किमिदानी क्षुत्क्षामकुक्षेः
सद्य एव विस्मृतम् ? येनोक्तवृत्तेरवच्छेदकत्वेन अन्यथासिद्धिमाह । एवं हि घटादावपि 20 दण्डविशिष्टाकाशत्वेनैव हेतुतां वदतो वदनं कः पिदध्यात् ? । अनयैव भिया-'चैतन्य· निष्ठायाः प्रमाणजन्यापरोक्षान्तःकरणवृत्तेरेव अज्ञाननाशकत्वाङ्गीकारेऽपि न दोषः, पारमार्थिकसत्ताऽभावेऽपि व्यावहारिकसत्ताङ्गीकारात् । न च स्वमादिवन्मिथ्यात्वापत्तिः, स्वरूपतो मिथ्यात्वस्य अप्रयोजकत्वात् , विषयतो मिथ्यात्वस्य च बाधाभावादसिद्धेः,
धूमभ्रमजन्यवह्वयनुमितेरपि अबाधितविषयतयाप्रामाण्यानङ्गीकाराच्च, कल्पितेनापि प्रति25 बिम्बेन वास्तवबिम्बानुमानप्रामाण्याच, स्वमार्थस्यापि अरिष्टादिसूचकत्वाच्च, क्वचित्तदुप
लब्धमत्रादेर्जागरेऽपि अनुवृत्तेरवाधाच' इति तपखिनोक्तम् - इति चेत् ; एतदपि अविचारितरमणीयम् , त्वन्मते स्वमजागरयोर्व्यवहारविशेषस्यापि कर्तुमशक्यत्वात् , बाधाऽभावेन ब्रह्मण इव घटादेरपि परमार्थसत्त्वस्य अप्रत्यूहत्वाच, प्रपञ्चासत्यत्वे बन्धमोक्षादेरपि तथात्वेन व्यवहारमूल एव कुठारदानात् । ॥ त्रिविधाज्ञानशक्तिनिवृत्तिप्रक्रियायाः निरास:...६७६. एतेन अज्ञाननिष्ठाः परमार्थव्यवहारप्रतिभाससत्त्वप्रतीत्यनुकूलास्तिस्रः शक्तयः कल्प्यन्ते, आद्यया प्रपञ्चे पारमार्थिकसत्त्वप्रतीतिः, अत एव नैयायिकादीनां तथाभ्यु१ न हि हन्यते ब मु। २ °दृशा ग्र मु। ३ मीमांसोक्तस्थ मु। ४ घटमहं जाना मु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org