Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 144
________________ ७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा । भवतोऽपि कथं तयोरपर्यवसानता?-इति पर्यनुयोज्यम् , यद्धर्मावच्छिन्ने क्रमिकत्वप्रसिद्धिः, तद्धर्मावच्छिन्ने अपर्यवसितत्वान्वयस्य निराकासत्वात् , अन्यथा 'ऋजुत्ववक्रत्वे अपर्यवसिते' इति प्रयोगस्यापि प्रसङ्गात् । मम तु रूपरसात्मकैकद्रव्यवदक्रममाविभिन्नोपाधिकोत्पादविगमात्मकत्वेऽपि केवलिद्रव्यादव्यतिरेकतः तयोरपर्यवसितत्वं नानुपपन्नम् । अथ पर्यायत्वावच्छेदकधर्मविनिर्मोकेण शुद्धद्रव्यार्थादेशप्रवृत्तेः क्रमैकान्तेऽपि केवलयोर-5 पर्यवसितत्वमुपपत्स्यते, अत एव पर्यायद्रव्ययोरादिष्टद्रव्यपर्यायत्वं सिद्धान्ते गीयते, तत्तदवच्छेदकविनिर्मोकस्य विवक्षाधीनत्वादिति चेत् । किमयमुक्तधर्मविनिर्मोकस्तत्तत्पदार्थतावच्छेदकविशिष्टयोः अभेदान्वयानुपपत्त्या शुद्धद्रव्यलक्षणया, उत उक्तधर्मस्य विशेषणत्वपरित्यागेन उपलक्षणत्वमात्रविवक्षया? आधे आद्यपद एव लक्षणायां 'शुद्धद्रव्यं शुद्धात्मद्रव्यं वा अपर्यवसितम्' इत्येव बोधः स्यात् । सादित्वस्यापि तत्र अन्वयप्रवेशे तु ॥ 'केवलिद्रव्यं साद्यपर्यवसितम्' इत्याकारक एव । उभयपदलक्षणायां तु शुद्धद्रव्यविषयको निर्विकल्पक एव बोध इति 'केवलज्ञानदर्शने साद्यपर्यवसिते' इति बोधस्य कथमपि अनुपपत्तिः । अन्त्ये च केवलत्वोपलक्षितात्मद्रव्यमात्रग्रहणे तत्र सादित्वान्वयानुपपत्तिः, केवलिपर्यायग्रहणे च नवविधोपचारमध्ये पर्याये पर्यायोपचार एवाश्रयणीयः स्यादिति समीचीनं द्रव्यार्थादेशसमर्थनम् ! नियतोपलक्ष्यतावच्छेदकरूपाभावेऽपि संमुग्धोपलक्ष्य- 15 विषयकतादृशबोधस्वीकारे च 'पर्यायोऽपर्यवसितः' इत्यादेरपि प्रसक्तिः । द्रव्यार्थतया केवलज्ञानकेवलदर्शनयोः अपर्यवसितत्वाभ्युपगमे द्वितीयक्षणेऽपि तयोः सद्भावप्रसक्तिः, अन्यथा द्रव्यार्थत्वायोगात् । ६११८. तदेवं क्रमाभ्युपगमे तयोरागमविरोध इत्युपसंहरन्नाह - "संतंमि केवले दंसणम्मि नाणस्य संभवो णस्थि ।। केवलनाणम्मि य दंसणस्स तम्हा अनिहणाई ॥" [ सन्मति० २।८] ६११९. स्वरूपतो द्वयोः क्रमिकत्वेऽन्यतरकालेऽन्यतराभावप्रसङ्गः, तथा च उक्तवक्ष्यमाणदूषणगणोपनिपातः, तस्मात् द्वावप्युपयोगौ केवलिनः स्वरूपतोऽनिधनावित्यर्थः । ग्रन्थकृताऽभेदपक्षस्योपन्यासः.१२०. इत्थं ग्रन्थकूदक्रमोपयोगद्वयाभ्युपगमेन क्रमोपयोगवादिनं पर्यनुयुज्य स्वपक्षं 25 दर्शयितुमाह "दंसणनाणावरणक्खए समाणम्मि कस्स पुव्वयरो। होज व सैमओप्पाओ हंदि दुवे णत्थि उवओगा ॥" [ सन्मति० २।९] ६१२१. सामान्यविशेषपरिच्छेदावरणापगमे कस्य प्रथमतरमुत्पादो भवेत् ?, अन्यतरोत्पादे तदितरस्याप्युत्पादप्रसङ्गात् , अन्यतरसामग्र्या अन्यतरप्रतिबन्धकत्वे च उभयो- 30 रप्यभावप्रसङ्गात् । “सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स" इति वचनप्रामाण्यात् प्रथमं केवलज्ञानस्य पश्चात् केवलदर्शनस्योत्पाद इति चेत्, न, एतद्वचनस्य लब्धि १°कारे वा पत। २ पुव्वयर-सन्मति०। ३ समं उप्पाओ-सन्मति०। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244