Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 147
________________ ज्ञानबिन्दुप्रकरणम् । ६१३१. तथा च सर्वज्ञत्वं न सम्भवतीत्याह - "अण्णायं पासंतो अद्दिटुं च अरहा वियाणंतो। किं जाणइ किं पासइ कह सव्वण्णु ति वा होइ ॥" [ सन्मति० २।१३] ६१३२. अज्ञातं पश्यन् अदृष्टं च जानानः किं जानाति किं वा पश्यति ? । न 5 किञ्चिदित्यर्थः । कथं वा तस्य सर्वज्ञता भवेत् ? । न कथमपीत्यर्थः। समसंख्यकविषयकत्वेनापि केवलयोरैक्यम् - ६१३३. ज्ञानदर्शनयोर्विषयविधयैकसंख्याशालित्वादपि एकत्वमित्याह - "केवलनाणमणंतं जहेव तह दंसणं पि पण्णत्तं । सागारग्गणाहि य णियमपरितं अनागारं ॥" [ सन्मति० २।१४] 10 ६१३४. योकत्वं ज्ञानदर्शनयोन स्यात् तदाऽल्पविषयत्वाद्दर्शनमनन्तं न स्यादिति “अणंते केवलनाणे अणंते केवलदंसणे" इत्यागमविरोधः प्रसज्येत । दर्शनस्य हि ज्ञानाद्भेदे साकारग्रहणादनन्तविशेषवर्तिज्ञानादनाकारं सामान्यमात्रावलम्बि केवलदर्शनं यतो नियमेनैकान्तेनैव परीतमल्पं भवतीति कुतो विषयाभावादनन्तता । न च 'उभयोस्तुल्यविषयत्वाविशेषेऽपि मुख्योपसर्जनभावकृतो विशेषः' इति वाच्यम्, विशेषणविशेष्यभावेन तत्तन्नय15 जनितवैज्ञानिकसम्बन्धावच्छिन्नविषयतया वा तत्र कामचारात् । आपेक्षिकस्य च तस्यास्म दादिबुद्धावेवाधिरोहात्। एतच्च निरूपिततत्त्वम् “जं जं जे जे भावे" [ आव० २८२] इत्यादिनियुक्तिगाथाया नयभेदेन व्याख्याद्वये अनेकान्तव्यवस्थायाम् अस्माभिः । अक्रमोपयोगद्वयवादी तु प्रकृतगाथायां साकारे यगृहणं दर्शनं तस्य नियमोऽवश्यंभावो यावन्तो विशेषास्तावन्त्यखण्डसखण्डोपाधिरूपाणि जातिरूपाणि वा सामान्यानीति हेतोस्तेनापरी20 तमनन्तमित्यकारप्रश्लेषेण व्याचष्टे । क्रमवादिकृतागमविरोधादिपरिहारस्य दूषणम् - ६१३५. क्रमवादे ज्ञानदर्शनयोरपर्यवसितत्वादिकं नोपपद्यत इति यदुक्तं तत्राक्षेपमुक्य समाधत्ते "भण्णइ जह चउनाणी जुज्जइ णियमा तहेव एवं पि । भण्णइ ण पंचनाणी जहेव अरहा तहेयं पि ॥" [सन्मति० २।१५] ६१३६. भण्यते आक्षिप्यते यथाक्रमोपयोगप्रवृत्तोऽपि मत्यादिचतुर्ज्ञानी तच्छक्तिसमन्वयादपर्यवसितचतुर्ज्ञानो ज्ञातदृष्टभाषी ज्ञाता द्रष्टा च नियमेन युज्यते । तथैतदपि एकत्ववादिना यदपर्यवसितत्वादि क्रमोपयोगे केवलिनि प्रेर्यते, तदपि सार्वदिककेवलज्ञानदर्शनशक्तिसमन्वया॑त् उपपद्यत इत्यर्थः । भण्यते अनोत्तरं दीयते-यथैवाहन्न पञ्चज्ञानी, ० तथैवैतदपि क्रमवादिना यदुच्यते - भेदतो ज्ञानवान् दर्शनवांश्च-तदपि न भवतीत्यर्थः । मत्याद्यावरणक्षयेऽपि एकदेशग्राहिणो मतिज्ञानादेरिव, दर्शनावरणक्षयेऽपि तादृशदर्शनस्य १ किञ्चिदपीतिभावः कथं त। २ °पितं तत्त्वं मु। ३ °लिनि कथमिति प्रेत । ४ °यात् युज्यत इति । भ० त। ५ तादृशस्य दत। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244