Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 159
________________ ५२ ज्ञानबिन्दुप्रकरणस्य [पृ० १. पं० १५उच्यते-इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद् यथा यथा देशतो मलविलयः तथा तथा देशतोऽभिव्यक्तिरुपजायते । सा च कचित्कदाचित् कथञ्चित् भवतीत्यनेकप्रकारा, तथा आत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाद्यापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदः तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते । सा च कचित्कदाचित् कथञ्चिदित्यनेकप्रकारा । उक्तं च - "मलविद्धमणेर्व्यक्तिर्यथानेकप्रकारतः। कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥" ४ । सा धानेकप्रकारता मति श्रुतादिभेदेनावसेया । ततो यथा मरकतादिमणेरशेषमलापगम10 संभवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति । तथाचोक्तम्- "यथा जात्यस्य रत्नस्य निःशेषमलहानितः । स्फुटैकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥" । ततो मत्यादिनिरपेक्षं केवलज्ञानम् ।...... . ननु सकलमपि इदं ज्ञानं ज्ञप्त्येकस्वभावं ततो ब्रत्येकखभावत्वाविशेषे किंकृत एष आभिनिबोधकादिभेदः । ज्ञेयभेदकृत इति चेत्-तथाहि-वार्तमानिक वस्तु आभिनिबोधिकज्ञानस्य ज्ञेयम् । त्रिकालसाधारणः समानपरिणामो ध्वनिर्गोचरः श्रुतज्ञानस्य; रूपिद्रव्याण्यवधिज्ञानस्य; 20 मनोद्रव्याणि मनःपर्यायज्ञानस्य; समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य । तदेतदसमीचीनम् । एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तेः । तथाहि - ज्ञेयभेदात् ज्ञानस्य भेदः । यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकादिज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गात् , अविषयत्वात् । तथा च सति केवलिनोऽप्यसर्वज्ञत्वप्रसङ्गः, आभिनिबोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाऽप्रहणात् । न 25 चैतदिष्टमिति -- अथोच्येत-प्रतिपत्तिप्रकारभेदतः आभिनिबोधिकादिभेदः । तथाहि-न यादृशी प्रतिपत्तिराभिनिबोधिकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्तु अन्यादृशी । एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यम् । ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः । तदप्ययुक्तम् । एवं सति एकस्मिनपि ज्ञानेऽनेकभेदप्रसक्तेः । तथाहि-तत्तद्देशकालपुरुषस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं ० प्रतिपत्तिप्रकारानन्त्यं प्रतिपद्यते । तन्नैषोऽपि पक्षः श्रेयान् । ... स्यादेतत् - अस्त्यावारकं कर्म, तच्चानेकप्रकारम् । ततः तद्भेदात् तदावार्य ज्ञानमप्यनेकतां प्रतिपद्यते । ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाभिधानात् । ततो ज्ञानमपि पञ्चधा प्ररूप्यते । तदेतदतीव युक्त्यसङ्गतम् । यत आवार्यापेक्षमावारकम् , अत आवार्यभेदादेव तद्भेदः । आवायं च ज्ञप्तिरूपापेक्षया सकलमपि एकरूपं, ततः कथमावारकस्य पश्चरूपता ? । येन तद्भेदात् ज्ञानस्यापि पञ्चविधो भेदः उद्गीर्येत । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244