Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 137
________________ ज्ञानबिन्दुप्रकरणम् । "ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥" [ भगवद्गीता ५.१६ ] इत्यादि। एवम् - "ब्रह्मविद् ब्रह्मैव भवति" [मुण्ड० ३.२.९] "तरति शोकमात्मवित्" [ छान्दो० ७.१.३] "तरत्यविद्यां वितता हृदि यस्मिन्निवेशिते । योगी मायाममेयाय तस्मै ज्ञानात्मने नमः" ॥ इति । "अविद्यायाः परं पारं तारयसि" [प्रश्नो० ६.८ ] इत्यादिः। श्रुतार्थापत्तिश्च-ब्रह्मज्ञानाद् ब्रह्मभावः श्रूयमाणस्तब्यवधायकाज्ञाननिवृत्तिमन्तरेण नोपपद्यत इति ज्ञानादज्ञाननिवृत्तिं गमयति ।। 1. "अनृतेन हि प्रत्यूढाः" [छान्दो० ८.३.२ ] "नीहारेण प्रावृताः" [ऋक्सं० १०.८२.७] "अन्यधुष्माकमन्तरम्" “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः" [ भगवद्गीता० ५.१५] इत्यादि श्रुतिस्मृतिशतेभ्योऽज्ञानमेवे च मोक्षव्यवधायकत्वेनावगतम् , एकस्यैव तत्त्वज्ञानेनाज्ञाननिवृत्त्यभ्युपगमाच नान्यत्र व्यभिचारदर्शनेन ज्ञानस्याज्ञाननिवर्तकत्वबाधो15 ऽपीति चेत् । न, एतस्यैकजीवमुक्तिवादस्य श्रद्धामात्रशरणत्वात् , अन्यथा जीवान्तरप्रतिभासस्य स्वामिकजीवान्तरप्रतिभासवत् विभ्रमत्वे जीवप्रतिभासमात्रस्यैव तथात्वं स्यादिति चार्वाकमतसाम्राज्यमेव वेदान्तिना प्राप्तं स्यात् । $ ८९. उक्तश्रुतयस्तु कर्मण एव व्यवधायकत्वम् , क्षीणकर्मात्मन एव च ब्रह्मभूयं प्रतिपादयितुमुत्सहन्त इति किं शशशृङ्गसहोदराज्ञानादिकल्पनया तदभिप्रायविडम्बनेन । " निर्विकल्पबोधे शुद्धद्रव्यनयादेशत्वोक्तिः ६९०. निर्विकल्पकब्रह्मबोधोऽपि शुद्धद्रव्यनयादेशतामेवावलम्बताम्, सर्वपर्यायनयविषयव्युत्क्रम एव तत्प्रवृत्ते, न तु सर्वथा जगदभावपक्षपातितामिति सम्यग्दृशां वचनोद्गारः । शाब्द एव स इत्यत्र तु नाग्रहः, यावत्पर्यायोपरागासम्भवविचारसहकृतेन मनसैव तगृहसम्भवात् । न केवलमात्मनि, किन्तु सर्वत्रैव द्रव्ये पर्यायोपरागानुपपत्तिप्रसूत5 विचारे मनसा निर्विकल्पक एव प्रत्ययोऽनुभूयते । उक्तं च सम्मतो "पज्जवणयवुकंतं वत्थु दवट्ठियस्स वत्तव्वं । जाव दविओवओगो अपच्छिमवियप्पनिव्वयणो ॥" [ सन्मति० ११८ ] इति । ६९१. पर्यायनयेन व्युत्क्रान्तं गृहीत्वा विचारेण मुक्तं वस्तु द्रव्यार्थिकस्य वक्तव्यम् । यथा 'घटो द्रव्यम्' इत्यत्र घटत्वविशिष्टस्य परिच्छिन्नस्य द्रव्यत्वविशिष्टेनापरिच्छिन्नेन 0 सहाभेदान्वयासम्भव इति मृदेव द्रव्यमिति द्रव्यार्थिकप्रवृत्तिस्तत्रापि सूक्ष्मेक्षिकायामपरापरद्रव्यार्थिकप्रवृत्तिः यावद्व्योपयोगः । न विद्यते पश्चिमे उत्तरे विकल्पनिर्वचने सवि १ अन्यदयुष्मा अबत। २ मेव मोक्ष मुअब। ३त्युपग अब। ४ च मान्य अब। ५°चारासह त। ६ °चारे हि म त । ७°कल्प एव त। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244