Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 130
________________ ६. ब्रह्मज्ञानसमीक्षा । २३ च सन्तानापेक्षया समाधिः, तस्यापि क्षणानतिरेके एकत्वासिद्धेः, एकत्वे च द्रव्यस्यैव नामान्तरत्वात्, सजातीयक्षणप्रबन्धरूपे सन्ताने च न कारकव्यापार इति समीचीनं मुमुक्षुप्रवृत्त्युपपादनम् ! S ६७२. अथ अक्लिष्टक्षणे 'अक्लिष्टक्षणत्वेनोपादानत्वमिति सजातीयक्षणप्रबन्धोपपत्तिः । बुद्धदेशितमार्गे तु तत्प्रयोजकत्वज्ञानादेव प्रवृत्तिरिति चेत् ; न, एकान्तवादे अनेन रूपेण निमित्तत्वं अनेन रूपेण च उपादानत्वमिति विभागस्यैव दुर्वचत्वात् । अक्लिष्टक्षणे अक्लष्टक्षणत्वेनैव उपादानत्वे आद्याक्लिष्टक्षणस्यानुत्पत्तिप्रसङ्गात्, अन्त्यक्लिष्टक्षणसाधारणस्य हेतुतावच्छेदकस्य कल्पने च क्लिष्टक्षणजन्यतावच्छेदकेन साङ्कर्यात्, जन्यजनकक्षणप्रबन्धकोट एकैकक्षण प्रवेशपरित्यागयोर्वि निगमकाभावाच्च । एतेन इतरव्यावृत्त्या शक्तिविशेषेण वा जनकत्वमित्यपि अपास्तम् । न च ' एतदनन्तरमहं उत्पन्नं एतस्य चाहं जनकम्' इति अवगच्छति क्षणरूपं ज्ञानमिति न भवन्मते कार्यकारणभावः, नापि तदवगमः, ततो याचितकमण्डनमेतत् एकसन्ततिपतितत्वात् एकाधिकरणं बन्धमोक्षादिकमिति । एतेन उपादेयोपादानक्षणानां परस्परं वास्यवासकभावात् उत्तरोत्तरविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव इत्यपि अपास्तम्, युगपद्भाविनामेव तिलकुसुमादीनां वास्यवासकभावदर्शनात् । उक्तं च [ ६. ब्रह्मज्ञानसमीक्षा | ] अखण्डब्रह्मज्ञानपरकमधुसूदनमतनिरासः - "वास्यवासकयोश्चैवम साहित्यान्न वासना । पूर्वक्षणैरनुत्पन्नो वास्यते नोत्तरक्षणः ॥” [ श्लोक० निराल० श्लो० १८२ ] इति । कल्पितशुद्धक्षणैकसन्तानार्थितयैव मोक्षोपाये सौगतानां प्रवृत्तिः, तदर्थैव च सुगतदेशना इत्यभ्युपगमे च तेषां मिथ्यादृष्टित्वम्, तत्कल्पितमोक्षस्य च मिथ्यात्वं स्फुटमेव । अधिकं लतायाम् । 20 10 Jain Education International 15 ९७३. एतेन अखण्डाद्वयानन्दैकरसब्रह्मज्ञानमेव केवलज्ञानम्, तत एव च अविद्यानिवृत्तिरूपमोक्षाधिगम इति वेदान्तिमतमपि निरस्तम्, तादृशविषयाभावेन तज्ज्ञानस्य मिथ्यात्वात् । कीदृशं च ब्रह्मज्ञानमज्ञाननिवर्तकमभ्युपेयं देवानांप्रियेण १ । न केवलचैतन्यम्, तस्य सर्वदा सत्त्वेन अविद्याया नित्यनिवृत्तिप्रसङ्गात्, ततश्च तन्मूलसंसारोपलब्ध्यसम्भवात् सर्वशास्त्रानारम्भप्रसङ्गात्, अनुभवविरोधाच्च । नापि वृत्तिरूपम्, वृत्तेः सत्यत्वे तत्कारणान्तःकरणाविद्यादेरपि सत्त्वस्य आवश्यकत्वेन तया तनिवृत्तेरशक्यतया सर्ववेदान्तार्थविप्लवापत्तेः । मिथ्यात्वे च कथमज्ञाननिवर्तकता ? । नहि मिथ्याज्ञानमज्ञाननिवर्तकं दृष्टम्, स्वप्नज्ञानस्यापि तत्त्वप्रसङ्गात् । ९ ७४. न च 'सत्यस्यैव चैतन्यस्य प्रमाणजन्यापरोक्षान्तःकरणवृत्त्यभिव्यक्तस्य अज्ञाननि १ अक्लिष्टक्षणस्योपात्वेन त । For Private & Personal Use Only 25 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244