Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 133
________________ ज्ञानबिन्दुप्रकरणम् । द्वितीयशक्तिविशिष्टाज्ञाननाशात् सञ्चितकर्म तत्कार्यं च नश्यति, ततस्तृतीयशक्त्या प्रारब्धकार्ये दग्धरज्जुस्थानीया बाधितावस्था जन्यते, इयमेव बाधितानुवृत्तिरिति चेत्, न, एवं सति घटपटादौ तत्त्वज्ञस्य न बाधितसत्त्वधीः, न वा व्यावहारिकपारमार्थिकसच्वधीरिति तत्र किञ्चिदन्यदेव कल्पनीयं स्यात्, तथा चं लोकशास्त्रविरोध इति सुष्टृक्तं 'हरिभद्राचार्यैः - 10 २६ 25 "अग्निजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥ परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । परिकल्पिते च तत्त्वे भवभवविगमौ कथं युक्तौ ॥" [ षोडशक १६.८ - ९] इत्यादि । तस्माद् वृत्तेर्व्यावहारिकसत्तयापि न निस्तारः । प्रपञ्चे परमार्थदृष्ट्येव व्यवहारदृष्ट्यापि सत्तान्तरानवगाहनादिति स्मर्तव्यम् । ब्रह्मज्ञानं पुनर्निरस्य सिद्धसेनोक्त्योपसंहारः ६७९. किञ्च सप्रकारं निष्प्रकारं वा ब्रह्मज्ञानं अज्ञाननिवर्तकमिति वक्तव्यम्, आ 15 निष्प्रकारे ब्रह्मणि सप्रकारकज्ञानस्य अयथार्थत्वात् न अज्ञाननिवर्त्तकता, तस्य यथार्थत्वे वा नाद्वैतसिद्धिः, द्वितीयपक्षस्तु निष्प्रकारकज्ञानस्य कुत्रापि अज्ञाननिवर्तकत्वादर्शनादेवानुद्भावनार्हः । किञ्च निष्प्रकारकज्ञानस्य कुत्रापि अज्ञाननिवर्तकत्वं न दृष्टमिति शुद्धब्रह्मज्ञानमात्रात् कथमज्ञाननिवृत्तिः १ । ९८०, न च 'सामान्यधर्ममात्राप्रकारकसमानविषयप्रमात्वं अज्ञाननिवृत्तौ प्रयोजकैम्, 20 अत्र प्रमेयमितिज्ञाने अतिव्याप्तिवारणाय सामान्येति, प्रमेयो घट इत्यादावतिव्या (वव्या) प्तिवारणाय मात्रेति, तेनेदं विशेषप्रकारे निष्प्रकारे चानुगतमिति निष्प्रकारकत्रह्मज्ञानस्यापि ब्रह्माज्ञाननिवर्तकत्वं लक्षणान्वयात् न च सामान्यधर्ममात्रप्रकारकज्ञानेऽव्याप्तिः, इदमनिदं वा, प्रमेयमप्रमेयं वा इत्यादिसंशयाद्यदर्शनात् सामान्यमात्र प्रकारकाज्ञानानङ्गीकारेण तदनिवर्तकस्य तस्यासङ्ग्रहाद्' इति वाच्यम्, निष्प्रकारकसंशयाभावेन निष्प्रकारकाज्ञानासिद्ध्या निष्प्रकारकब्रह्मज्ञानस्यापि तन्निवर्तकत्वायोगाद् । एकत्र धर्मिणि प्रकाराणामनन्तत्वे प्रकारनिष्ठतया निरवच्छिन्नप्रकारतासम्बन्धेन अधिष्ठानप्रमात्वेन तया तदज्ञाननिवर्तकत्वौचित्यात् । अधिष्ठानत्वं च भ्रमजनकाज्ञानविषयत्वं वा अज्ञानविषयत्वं वा अखण्डोपाधिर्वा । न च 'विषयतयैव तत्त्वं युक्तम्, प्रमेयत्वस्य च केवलान्वयिनोऽनङ्गीकारात् न प्रमेयमिति ज्ञानात् घटाद्याकाराज्ञाननिवृत्तिप्रसङ्गः' इति वाच्यम्, द्रव्यमिति ज्ञानात् तदीपत्तेरवा30 रणात् । न च ' तस्य द्रव्यत्वविशिष्टविषयत्वेऽपि घटत्वविशिष्टा विषयत्वात् तद्वारणम्, द्रव्यत्वविशिष्टस्यैव घटावच्छेदेन घटत्वविशिष्टत्वात् सच्चविशिष्टब्रह्मवत्, विशिष्ट विषयज्ञानेन विशिष्टविषयाज्ञाननिवृत्यभ्युपगमेऽपि च ब्रह्मणः सच्चिदानन्दत्वादिधर्म वैशिष्ट्यप्रसङ्गः । WOR Jain Education International १ च सर्वलोक त । २ तन्मात्र एव तत्त्वे - षोडशक । ३ ° कं प्रमे मु अ ब । ४ मितिज्ञानेऽव्याप्ति° अ ब । ५° प्रकारके ज्ञाने त । ६ °संशयादर्शनेन तदनिवर्तकस्य मु अ ब । ७ °यत्वमेव वा मुत । ८ तदापत्तेरनिवारणात् त । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244