________________
५. केवलज्ञानचर्चा ।
[५. केवलज्ञानचर्चा ।] ६५७. सर्वविषयं केवलज्ञानम् । सर्वविषयत्वं च सामान्यधर्मानवच्छिन्ननिखिलधर्मप्रकारकत्वे सति निखिलधर्मिविषयत्वम् । प्रमेयवदिति ज्ञाने प्रमेयत्वेन निखिलधर्मप्रकारके अतिव्याप्तिवारणाय अनवच्छिन्नान्तम् , केवलदर्शने अतिव्याप्तिवारणाय सत्यन्तम् , विशेष्यभागस्तु पर्यायवाद्यभिमतप्रतीत्यसमुत्पादरूपसन्तानविषयकनिखिलधर्मप्रकारकज्ञा- 5 ननिरासार्थः । वस्तुतो निखिलज्ञेयाकारवत्त्वं केवलज्ञानत्वम् । केवलदर्शनाभ्युपगमे तु तत्र निखिलदृश्याकारवत्त्वमेव, न तु निखिलज्ञेयाकारवत्त्वमिति नातिव्याप्तिः । न च 'प्रतिवं केवलज्ञाने केवलज्ञानान्तरवृत्तिवप्राकालविनष्टवस्तुसम्बन्धिवर्तमानत्वाद्याकाराभावात्' असम्भवः; स्वसमानकालीननिखिलज्ञेयाकारवत्त्वस्य विवक्षणात् । न च 'तथापि केवलज्ञानग्राह्ये आद्यक्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यताया द्वितीयक्षणे नाशः, द्वितीय- 10 क्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यतायाश्च उत्पादः, इत्थमेव ग्राह्यसामान्यविशेष्यताध्रौव्यसंभेदेन केवलज्ञाने त्रैलक्षण्यमुपपादितमिति एकदा निखिलज्ञेयाकारवत्त्वासम्भव एवं' इति शङ्कनीयम् , समानकालीनत्वस्य क्षणगर्भत्वे दोषाभावात् । अस्तु वा निखिलज्ञेयाकारसङ्गमयोग्यतावत्त्वमेव लक्षणम् । केवलसिद्धावनुमानोपन्यास:
६५८. प्रमाणं च तत्र ज्ञानत्वमत्यन्तोत्कर्षवद्वत्ति अत्यन्तापकर्षवद्वत्तित्वात् परिमाणत्ववत् इत्याद्यनुमानमेव । न च अप्रयोजकत्वं ज्ञानतारतम्यस्य सर्वानुभवसिद्धत्वेन तद्विश्रान्तेः अत्यन्तापकर्षात्कषोभ्यां विनाऽसम्भवात् । न च 'इन्द्रियाश्रितज्ञानस्यैव तरतमभावदर्शनात् तत्रैव अन्त्यप्रकर्षों युक्तः' इत्यपि शङ्कनीयम् , अतीन्द्रियेपि मनोज्ञाने शास्त्रार्थावधारणरूपे शास्त्रभावनाप्रकर्षजन्ये, शास्त्रातिक्रान्तविषये अतीन्द्रियविषयसामर्थ्य- 20 योगवृत्तिसाधने अध्यात्मशास्त्रसिद्धप्रातिभनामधेये च तरतमभावदर्शनात् । केवले भावनायाः साक्षाद्धेतुत्वनिरासाय चर्चा
६५९. नन्वेवं भावनाजन्यमेव प्रातिभवत्केवलं प्राप्तम् , तथा च अप्रमाणं स्यात् , कामातुरस्य सर्वदा कामिनीं भावयतो व्यवहितकामिनीसाक्षात्कारवत् भावनाजन्यज्ञानस्य अप्रमाणत्वव्यवस्थितेः।
६६०. अथ न भावनाजन्यत्वं तत्र अप्रमाण्यप्रयोजकम् , किन्तु बाधितविषयत्वम् , भावनानपेक्षेपि शुक्तिरजतादिभ्रमे बाधादेव अप्रामाण्यस्वीकारात् । प्रकृते च न विषयबाध इति नाप्रामाण्यम् । न च 'व्यवहितकामिनीविभ्रमादौ दोषत्वेन भावनायाः क्लप्तत्वात् तजन्यत्वेनास्याप्रामाण्यम् , बाधितविषयत्ववद्दोषजन्यत्वस्यापि भ्रमत्वप्रयोजकत्वात् । तथा चोक्तं मीमांसाभाष्यकारेण - "यस्य(त्र) च दुष्टं का(क)रणं यत्र च, मिथ्ये- 30 त्यादिप्र(मिथ्येऽतिप्रोत्ययः स एव(वा)समीचीनो नान्य इति ।" [ शाबर० १.१.५] वार्तिककारेणाप्युक्तम् - १ अप्रसिद्ध मु।
25
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org