________________
ज्ञानबिन्दुप्रकरणम् । "तस्माद्बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता ।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥" [ श्लोक० सू० २ श्लो० ५३ ] इति । अत्र हि तुल्यवदेवाप्रामाण्यप्रयोजकद्वयमुक्तम् , तस्मात् बाधाऽभावेऽपि दोषजन्यत्वात् अप्रामाण्यम्" इति वाच्यम् , भावनायाः क्वचिद्दोषत्वेऽपि सर्वत्र दोषत्वानिश्चयात् , अन्यथा 5 शंखपीतत्वभ्रमकारणीभूतस्य पीतद्रव्यस्य स्वविषयकज्ञानेऽपि अप्रामाण्यप्रयोजकत्वं स्यात्, इति न किञ्चिदेतत् , क्वचिदेव कश्चिद्दोष इत्येवाङ्गीकारात् , विषयबाधेनैव दोषजन्यत्वप्रकल्पनाच, दुष्टकारणजन्यस्यापि अनुमानादेर्विषयाबाधेन प्रामाण्याभ्युपगमात्, अन्यथा परिभाषामात्रापत्तेः । मीमांसाभाष्य-बार्तिककाराभ्यामपि बाधितविषयत्वव्याप्यत्वेनैव
दुष्टकारणजन्यत्वस्य अप्रामाण्यप्रयोजकत्वमुक्तं न स्वातत्र्येणेति चेत्;10 ६१. मैवम् , तथापि परोक्षज्ञानजन्यभावनाया अपरोक्षज्ञानजनकत्वासम्भवात् । न हि वह्वयनुमितिज्ञानं सहस्रकृत्व आवृत्तमपि वह्निसाक्षात्काराय कल्पते । न च 'अभ्यस्यमानं ज्ञानं परमप्रकर्षप्राप्त तथा भविष्यति' इत्यपि शङ्कनीयम्, लङ्घनोदकतापादिवत् अभ्यस्यमानस्यापि परमप्रकर्षायोगात् । न च 'लङ्घनस्यैकस्यावस्थितस्याभावात् अपरापरप्रयत्नस्य पूर्वापूर्वातिशयितलवनोत्पादन एवं व्यापाराद् यावल्लङ्घयितव्यं तावन्नादावेव 15 श्लेष्मादिना जाड्यात्कायो लङ्घयितुं शक्नोति अभ्यासासादितश्लेष्मक्षयपटुभावश्चोत्तरकालं शकोतीति तत्र व्यवस्थितोत्कर्षता । उदकतापे तु अतिशयेन क्रियमाणे तदाश्रयसैव क्षयात् न तत्रापि अग्निरूपतापत्तिरूपोऽन्त्योत्कर्षः। विज्ञानं तु संस्काररूपं शास्त्रपरावर्तनाद्यन्यथानुपपत्त्योत्तरत्रापि अनुवर्तत इति तत्र अपरापरयत्नानां सर्वेषामुपयोगात्
अत्यन्तोत्कर्षो युक्त इति तद्वता भावनाज्ञानेनापरोक्षं केवलज्ञानं जन्यते' इति टीकाक। दुक्तमपि विचारसहम् , तस्य प्रमाणान्तरत्वापत्तेः, मनो' यदसाधारणमिति न्यायात् ,
अन्यथा चक्षुरादिव्याप्तिज्ञानादिसहकृतस्य मनस एव सर्वत्र प्रामाण्यसम्भवे प्रमाणान्तरोच्छेदापत्तेः, चक्षुरादीनामेव(वाऽ) साधारण्यात् प्रामाण्यमित्यभ्युपगमे भावनायामपि तथा वक्तुं शक्यत्वात् । एवं च परोक्षभावनाया अपरोक्षज्ञानजनकत्वं तस्याः प्रमाणान्तरत्वं
च अन्यत्रादृष्टचरं कल्पनीयमिति महागौरवमिति चेत् :s६६२. अनुक्तोपालम्भ एषः, प्रकृष्टभावनाजन्यत्वस्य केवलज्ञानेऽभ्युपगमवादेनैव
टीकाकृतोक्तत्वात् । वस्तुतस्तु तजन्यात्प्रकृष्टादावरणक्षयादेव केवलज्ञानोत्पत्तिरियेव सिद्धान्तात् । योगजधर्मजत्वनिषेधेनावरणक्षयजत्वसिद्धिः
६६३. यैरपि योगजधर्मस्य अतीन्द्रियज्ञानजनकत्वमभ्युपगम्यते, तैरपि प्रतिबन्धकपाप० क्षयस्य द्वारत्वमवश्यमाश्रयणीयम् , सति प्रतिबन्धके कारणस्य अकिञ्चित्करत्वात् । केवलं
१माण्यमेवति त। २ °न्यवकल्प मु। ३ अभ्यासाद्वारितश्ठे त। ४ मपि युक्तं तस्य त । ५ मन यद अब। ६ मित्यादि न्यायाव अ। ७ °मेव सर्वत्र साधा त। ज्ञानविषयलं तस्याः त।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org