________________
५. केवलज्ञानचर्चा । तैर्योगजधर्मस्य मनःप्रत्यासत्तित्वम् , तेन सन्निकर्षण निखिलजात्यंशे निरवच्छिन्नप्रकारताकज्ञाने, पोडशपदार्थविषयकविलक्षणमानसज्ञाने वा तत्त्वज्ञाननामधेये मनसः करणत्वम् , चाक्षुषादिसामग्रीकाल इव लौकिकमानससामग्रीकालेऽपि तादृशतत्त्वज्ञानानुत्पत्तेस्तत्त्वज्ञानाख्यमानसे तदितरमानससामग्र्याः प्रतिबन्धकत्वम्, तत्त्वज्ञानरूपमानससामयाच प्रणिधानरूपविजातीयमनःसंयोगघटितत्वं कल्पनीयमिति अनन्तमप्रामाणिककल्पनागौरवम् । अस्माकं तु दुरितक्षयमानं तत्र कारणमिति लाघवम् । अत एवेन्द्रियनोइन्द्रियज्ञानासाचिव्येन केवलमसहायमिति प्राञ्चो व्याचक्षते । स चावरणाख्यदुरितक्षयो भावनातारम्यात् तारतम्येनोपजायमानस्तदत्यन्तप्रकर्षात् अत्यन्तप्रकर्षमनुभवतीति किमनुपपन्नम् ? । तदाह अकलङ्को(समन्तभद्रो)ऽपि
"दोषावरणयोर्हानिनिःशेषास्त्यतिशायनात् ।
क्वचिद्यथा खहेतुभ्यो बहिरन्तर्मलक्षयः ॥" [ आप्त० का० ४ ] इति । ६६४. न च 'निम्बाद्यौषधोपयोगात् तरतमभावापचीयमानस्यापि श्लेष्मणो नात्यन्तिकक्षयः' इति व्यभिचारः, तत्र निम्बाद्यौषधोपयोगोत्कर्षनिष्ठाया एव आपादयितुमशक्यत्वात् , तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदैवासेवनात् , अन्यथा औषधोपयोगाधारस्यैव विनाशप्रसङ्गात् । चिकित्साशास्त्रं हि उद्रिक्तधातुदोषसाम्यमुद्दिश्य प्रवर्तते, 15 न तु तस्य निर्मूलनाशम् , अन्यतरदोषात्यन्तक्षयस्य मरणाविनाभावित्वादिति द्रष्टव्यम् । रागादेः केवलज्ञानावरकत्वसमर्थनम् -
६६५. रागाद्यावरणापाये सर्वज्ञज्ञानं वैशयभाग् भवतीत्यत्र च न विवादो रजोनीहाराद्यावरणापाये वृक्षादिज्ञाने तथा दर्शनात् । न च 'रागादीनां कथमावरणत्वम् ?, कुड्यादीनामेव पौगलिकानां तथात्वदर्शनाद्' इति वाच्यम् , कुड्यादीनामपि प्रातिभादावनावार- 20 कत्वात् , ज्ञानविशेषे तेषामावरणत्ववच्च अतीन्द्रियज्ञाने रागादीनामपि तथात्वमन्वयव्यतिरेकाभ्यामेव सिद्धम् , रागाद्यपचये योगिनामतिन्द्रियानुभवसम्भवात् । पौद्गलिकत्वमपि द्रव्यकर्मानुगमेन तेषां नासिद्धम् , स्वविषयग्रहणक्षमस्य ज्ञानस्य तदग्राहकताया विशिष्टद्रव्यसम्बन्धपूर्वकत्वनियमात् पीतहत्पूरपुरुषज्ञाने तथा दर्शनात् इति ध्येयम् ।। रागादेः कर्मजत्वसिद्धये कफादिजत्वस्य निरास:
६६६. बार्हस्पत्यास्तु- 'रागादयो न लोभादिकर्मोदयनिबन्धनाः किन्तु कफादिप्रकतिहेतुकाः । तथाहि-कफहेतुको रागः, पित्तहेतुको द्वेषः, वातहेतुकश्च मोहः । कफादयश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् , ततो न सार्वज्ञमूलवीतरागत्वसम्भव' इत्याहुः । तदयुक्तम् , रागादीनां व्यभिचारेण कफादिहेतुकत्वायोगात्, दृश्यते हि वातप्रकृतेरपि रागद्वेषौ, कफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृतेरपि मोहरागाविति । एकैकस्या: 30 प्रकृतेः पृथक् सर्वदोषजननशक्त्युपगमे च सर्वेषां समरागादिमत्त्वप्रसङ्गात् । न च
१ ज्ञानानुपपत्तेः मु अ ब । २ एवेन्द्रियज्ञानासा मु। ३ °क्षयोऽपिभाव मु। ४ भावोपची अ ब । ५ विशिष्टप्रत्ययसम्ब°मुब। ६ दृश्यतेमुअब।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org