________________
ज्ञानबिन्दुप्रकरणम् । 'स्वस्खयोग्यक्रमिकरागादिदोषजनककफाद्यवान्तरपरिणतिविशेषस्य प्रतिप्राणिकल्पनात् नायं दोषः' इति वाच्यम्, तदवान्तरवैजात्यावच्छिन्नहेतुगवेषणायामपि कर्मण्येव विश्रामात् । किञ्च अभ्यासजनितप्रसरत्वात् प्रतिसंख्याननिवर्तनीयत्वाच न कफादिहेतुकत्वं रागादीनाम् ।
६६७. एतेन शुक्रोपचयहेतुक एव रागो नान्यहेतुक इत्याद्यपि निरस्तम् , अत्यन्तस्त्री। सेवापरस्य क्षीणशुक्रस्यापि रागोद्रेकदर्शनात्, शुक्रोपचयस्य सर्वस्वीसाधारणाभिलाषजनकत्वेन कस्यचिदेव रागोद्रेक इत्यस्यानुपपत्तेश्च । न च असाधारण्ये रूपमेव हेतुः, तद्रहितायामपि कस्यचिद्रागदर्शनात् । न च तत्र उपचार एव हेतुः, द्वयेनापि विमुक्तायां रागदर्शनात् । तस्मात् अभ्यासदर्शनजनितोपचयपरिपाकं कर्मैव विचित्रवभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति प्रतिपत्तव्यम् । ॥ ६६८. एतेन पृथिव्यम्बुभूयस्त्वे रागः, तेजोवायुभूयस्त्वे द्वेषः, जलवायुभूयस्त्वे मोह इत्यादयोऽपि प्रलापा निरस्ताः, तस्य विषयविशेषापक्षपातित्वादिति दिक् । कर्मभूतानां रागादीनां सम्यग्ज्ञानक्रियाभ्यां क्षयेण वीतरागत्वं सर्वज्ञत्वं च अनाविलमेव । नैरात्म्यभावनानिरासाय क्षणभङ्गे मिथ्यात्वोक्तिः
६६९. शौद्धोदनीयास्तु- 'नैरात्म्यादिभावनैव रागादिक्लेशहानिहेतुः, नैरात्म्यावग15 तावेव आत्मात्मीयाभिनिवेशाभावेन रागद्वेषोच्छेदात् संसारमूलनिवृत्तिसम्भवात् , आत्मावगतौ च तस्य नित्यत्वेन तत्र स्नेहात् तन्मूलतृष्णादिना क्लेशानिवृत्तेः । तदुक्तम् -
"यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात्सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥ गुणदर्शी परितृप्यत्यात्मनि तत्साधनान्युपादत्ते ।
तेनात्माभिनिवेशो यावत्तावच्च संसारः ॥" [प्रमाणवा० २.२१७,२१८ ] इति । ६७०. ननु यद्येवं आत्मा न विद्यते, किन्तु पूर्वापरक्षणत्रुटितानुसन्धानाः पूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथा उत्पद्यन्त इत्यभ्युपगमस्तदा परमार्थतो न कश्चिदुपकार्योपकारकस्वभाव इति कथमुच्यते 'भगवान् सुगतः करुणया सकलसत्त्वोपकाराय देशनां कृतवान्' इति । क्षणिकत्वमपि यद्येकान्तेन, तर्हि तत्त्ववेदी क्षणोऽनन्तरं विनष्टः सन् 'न 25 कदाचनापि अहं भूयो भविष्यामि' इति जानानः किमर्थं मोक्षाय यतत इति । अत्रोच्यतेभगवान् हि प्राचीनावस्थायां सकलमपि जगदुःखितं पश्यंस्तदुद्दिधीर्षया नैरात्म्यक्षणिकत्वादिकमवगच्छन्नपि तेषामुपकार्यसत्त्वानां निष्क्लेशक्षणोत्पादनाय प्रयतते, ततो जातसकलजगत्साक्षात्कारः समुत्पन्नकेवलज्ञानः पूर्वाहितकपाविशेषसंस्कारात् कृतार्थोऽपि देशनायां प्रवर्तते, अधिगततत्तात्पर्यार्थाश्च वसन्ततिगतविशिष्टक्षणोत्पत्तये मुमुक्षवः प्रवर्त्तन्ते, " इति न किमपि अनुपपन्नम्' इत्याहुः।
६७१. तदखिलमज्ञानविलसितम् । आत्माभावे बन्धमोक्षायेकाधिकरणत्वायोगात् । न
१°तया तदा तत् अब।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org