________________
१८
ज्ञानबिन्दुप्रकरणम् । रूपिसमव्याप्यविषयताकेऽतिव्याप्तिः, विषयतापदेन स्पष्टविशेषाकारग्रहणादिति संक्षेपः ।
[४. मनःपर्यायज्ञानचर्चा ।] ६५३. मनोमात्रसाक्षात्कारि मनःपर्यायज्ञानम् । न च तादृशावधिज्ञानेऽतिव्याप्तिः, मनःसाक्षात्कारिणोऽवधेः स्कन्धान्तरस्यापि साक्षात्कारित्वेन तादृशावधिज्ञानासिद्धेः । न 5 च 'मनस्त्वपरिणतस्कन्धालोचितं बाह्यमप्यर्थ मनःपयोयज्ञानं साक्षात्करोतीति तस्य मनोमात्रसाक्षात्कारित्वमसिद्धम्' इति वाच्यम् , मनोद्रव्यमात्रालम्बनतयैव तस्य धर्मिग्राहकमानसिद्धत्वात् , बाह्यार्थानां तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तिप्रसूतानुमानत एव ग्रहणाभ्युपगमात् । आह च भाष्यकार:
"जाणइ बज्झेऽणुमाणेणं ति ।" [विशेषा० गा० ८१४ ] 1६५४. बाह्यार्थानुमाननिमित्तकमेव हि तत्र मानसमचक्षुर्दर्शनं अङ्गीक्रियते, यत्पुरस्कारेण सूत्रे 'मनोद्रव्याणि जानाति पश्यति चैतद्' इति व्यवह्रियते । एकरूपेऽपि ज्ञाने द्रव्याद्यपेक्षक्षयोपशमवैचित्र्येण सामान्यरूपमनोद्रव्याकारपरिच्छेदापेक्षया 'पश्यति' इति, विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया च 'जानाति' इत्येवं वा व्याचक्षते । आपेक्षिकसामान्यज्ञानस्यापि व्यावहारिकावग्रहन्यायेन व्यावहारिकदर्शनरूपत्वात् । निश्चयतस्तु 15 सर्वमपि तज्ज्ञानमेव, मनःपर्यायदर्शनानुपदेशादिति द्रष्टव्यम् । अवधि-मनःपर्यायज्ञानयोरभिन्नत्वसमर्थनम् -
६५५. नव्यास्तु बाह्यार्थाकारानुमापकमनोद्रव्याकारग्राहकं ज्ञानमवधिविशेष एव, अप्रमत्तसंयमविशेषजन्यतावच्छेदकजातेः अवधित्वव्याप्याया एव कल्पनात् धर्मीति न्यायात् । इत्थं हि 'जानाति पश्यति' इत्यत्र दृशेरवधिदर्शनविषयत्वेनैव उपपत्तौ लक्षणा५ कल्पनगौरवमपि परिहृतं भवति । सूत्रे भेदाभिधानं च धर्मभेदाभिप्रायम् । यदि च सङ्कल्पविकल्पपरिणतद्रव्यमात्रग्राह्यभेदात् तद्राहकं ज्ञानमतिरिक्तमिति अत्र निवेन्धः तदा द्वीन्द्रियादीनामपि इष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात् तजनकसूक्ष्मसङ्कल्पजननपरिणतद्रव्यविषयमपि मनःपर्यायज्ञानमभ्युपगन्तव्यं स्यात्, चेष्टाहेतोरेव मनसः तद्राह्यत्वात् ।
न च तेन द्वीन्द्रियादीनां समनस्कतापत्तिः, कपर्दिकासत्तया धनित्वस्येव, एकया गवा 25 गोमत्त्वस्येव, सूक्ष्मेण मनसा समनस्कत्वस्य आपादयितुमशक्यत्वात् । तदिदमभिप्रेत्योक्तं निश्चयद्वात्रिंशिकायां महावादिना
“प्रार्थना प्रतिघाताभ्यां चेष्टन्ते द्वीन्द्रियादयः।
मनःपर्यायविज्ञानं युक्तं तेषु न चान्यथा ॥" [ निश्चय० १७ ] इति । ६५६. न चैवं ज्ञानस्य पञ्चविधत्वविभागोच्छेदात् उत्सूत्रापत्तिः, व्यवहारतश्चतुर्विध० त्वेन उक्ताया अपि भाषाया निश्चयतो द्वैविध्याभिधानवनयविवेकेन उत्सूत्राभावादिति दिक।
१ वा व्याख्येयम् । आपेत। २ समनस्कलापत्तिः त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org