________________
३. अवधिज्ञानचर्चा । तस्या विशेषविषयत्वात् । न च 'निसर्गाधिगमसम्यक्त्वरूपकार्यभेदात् मतिश्रुतज्ञानरूपकारणभेदः' इत्यपि साम्प्रतम् , तत्र निसर्गपदेन स्वभावस्यैव ग्रहणात् । यद् वाचकः
“शिक्षागमोपदेशश्रवणान्येकीथिकान्यधिगमस्य ।
एकार्थः परिणामो भवति निसर्गः खभावश्च ॥" [प्रशम० का० २२३ ] इति । यत्रापि मतेः श्रुतभिन्नत्वेन ग्रहणं तत्र गोबलीवर्दन्याय एव आश्रयणीयः । तदिदमभि- 5 प्रेत्याह महावादी सिद्धसेनः
“वैयर्थ्यातिप्रसङ्गाभ्यां न मत्यभ्यधिकं श्रुतम् ।" [ निश्चय० १९] इति । इत्याह ।
[३. अवधिज्ञानचर्चा ।] ६५१. अवधिज्ञानत्वं रूपिसमव्याप्यविषयताशालिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वम् । । रूपिसमव्याप्यविषयताशालिज्ञानं परमावधिज्ञानम् ,
___ "रूवगयं लहइ सव्वं ।" [ आव० गा० ४४] इति वचनात् । तद्वत्तिज्ञानत्वव्याप्या जातिवधित्वमवधिज्ञानमात्र इति लक्षणसमन्वयः । समव्याप्यत्वमपहाय व्यापकत्वमात्रदाने जगद्व्यापकविषयताकस्य केवलस्य रूपिव्यापकविषयताकत्वनियमात् तद्वृत्तिकेवलत्वमादाय केवलज्ञानेऽतिव्याप्तिः । समव्याप्यत्वदाने । तु अरूपिणि व्यभिचारात् केवलज्ञानविषयताया रूप्यव्याप्यत्वात् तन्निवृत्तिः । न च 'परमावधिज्ञानेऽप्यलोके लोकप्रमाणासंख्यारूप्याकाशखण्डविषयतोपदर्शनाद्' असम्भवः, यदि तावत्सु खण्डेषु रूपिद्रव्यं स्यात् तदा पश्येदिति प्रसङ्गापादन एव तदुपदर्शनतात्पर्यात् । न च तदंशे विषयबाधेन सूत्राप्रामाण्यम् , स्वरूपबाधेऽपि शक्तिविशेषज्ञापनेन फलाबाधात् । एतेन असद्भावस्थापना व्याख्याता बहिर्विषयताप्रसञ्जिका तारतम्येन 20 शक्तिवृद्धिश्च लोकमध्य एव सूक्ष्मसूक्ष्मतरस्कन्धावगाहनफलवतीति न प्रसङ्गापादनवैयर्थ्यम् । यद्भाष्यम् -
"वतो पुण बाहिं लोगत्थं चेव पासई दव्वं ।
सुहुमयरं सुहुमयरं परमोही जाव परमाणुं ॥" [ विशेषा० गा० ६०६ ] इति । ५२. अलोके लोकप्रमाणासंख्येयखण्डविषयता अवधेरिति वचने विषयतापदं तर्कि- 25 तरूप्यधिकरणताप्रसञ्जिततावेदधिकरूपिविषयतापरमिति न स्वरूपबाधोऽपीति तत्त्वम् । जातौ ज्ञानत्वव्याप्यत्वविशेषणं ज्ञानत्वमादाय मत्यादावतिव्याप्तिवारणार्थम् । न च संयमप्रत्ययावधिज्ञानमनःपर्यायज्ञानसाधारणजातिविशेषमादाय मनःपर्यायज्ञानेतिव्याप्तिः, अवधित्वेन साङ्कर्येण तादृशजात्यसिद्धेः। न च 'पुद्गला रूपिणः' इति शाब्दबोधे
४ असद्भावप्रस्थापना
१न्येकार्थकान्य त। २ ज्ञानं तद्वृत्ति अब । ३ °वधिलं तद्वखं अव त। अत। ५ तावदधिकरणकरूपिम् त ।
ज्ञा०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org