________________
ज्ञानबिन्दुप्रकरणम् । ६४८.न च-अविच्युतेरपायावस्थानात् पार्थक्ये मानाभावः, विशेषजिज्ञासानिवृत्त्यवच्छिन्नस्वरूपस्य कथञ्चित् भिन्नत्वात् । 'अवगृह्णामि', 'ईहे', 'अवैमि', 'स्थिरीकरोमि' इति प्रत्यया एव च प्रतिप्राण्यनुभवसिद्धाः अवग्रहादिभेदे प्रमाणम् । स्मृतिजनकतावच्छेदकत्वेनैव वा अविच्युतित्वं धर्मविशेषः कल्प्यते, तत्तदुपेक्षान्यत्वस्य स्मृतिजनकतावच्छे. 5 दककोटिप्रवेशे गौरवादिति धर्मविशेषसिद्धौ धर्मिविशेषसिद्धिरित्यधिक मत्कृतज्ञानार्णवात् अवसेयम् । तदेवं निरूपितं मतिज्ञानम् । तन्निरूपणेन च श्रुतज्ञानमपि निरूपितमेव । द्वयोरन्योऽन्यानुगतत्वात् तथैव व्यवस्थापितत्वाच । अन्यमतेन श्रुतलक्षणम् -
४९. अन्ये तु अङ्गोपाङ्गादिपरिज्ञानमेव श्रुतज्ञानम्, अन्यच्च मतिज्ञानमिति । ॥ अनयोरपि भजनैव । यदुवाच' वाचकचक्रवर्ती- “एकादीन्येकस्मिन् भाज्यानि त्वाचतुभ्यः।" [ तत्त्वार्थ० १.३१] इति शब्दसंस्पृष्टार्थमात्रग्राहित्वेन श्रुतत्वे तु अवग्रहमात्रमेव मतिज्ञानं प्रसज्येत । धारणोत्तरं स्वसमानकारश्रुतावश्यंभावकल्पनं तु स्ववासनामात्रविजृम्भितम् । शब्दसंस्पृष्टाया मतेरेव श्रुतत्वपरिभाषणं तु न पृथगुपयोगव्यापकमिति शाब्दज्ञानमेव श्रुतज्ञानम्, न तु अपरोक्षमिन्द्रियजन्यमपि इत्याहुः। 15 मतिश्रुतोपयोगयोरभिन्नत्वमिति सिद्धसेनीयमतस्य विशदीकरणम् -
५०. नव्यास्तु श्रुतोपयोगो मत्युपयोगात् न पृथक्, मत्युपयोगेनैव तत्कार्योपपत्तौ तत्पार्थक्यकल्पनाया व्यर्थत्वात् । अत एव शब्दजन्यसामान्यज्ञानोत्तरं विशेषजिज्ञासायां तन्मूलकमत्यपायांशप्रवृत्तौ न पृथगवग्रहकल्पनागौरवम्, शाब्दसामान्यज्ञानस्यैव तत्र
अवग्रहत्वात् । नच- 'अशाब्दे शाब्दस्य तत्सामग्र्या वा प्रतिबन्धकत्वध्रौव्यात् नेयं 20 कल्पना युक्ता' इति वाच्यम् , अशाब्दत्वस्य प्रतिबध्यतावच्छेदकत्वे प्रतियोगिकोटौ शब्द
मूलमतिज्ञानस्यापि प्रवेशात्, अन्यथा श्रुताभ्यन्तरीभूतमतिज्ञानोच्छेदप्रसङ्गात् । किञ्च, शाब्दज्ञानरूपश्रुतस्य अवग्रहादिक्रमवतो मतिज्ञानाद् भिन्नत्वोपगमे अनुमानस्मृतिप्रत्यभिज्ञानादीनामपि तथात्वं स्यात् इत्यतिप्रसङ्गः, सांव्यवहारिकप्रत्यक्षत्वाभावस्थापि तेषु
तुल्यत्वात् । यदि च अवग्रहादिभेदाः सांव्यवहारिकप्रत्यक्षरूपस्यैव मतिज्ञानस्य सूत्रे 25 प्रोक्ताः, अनुमानादिकं तु परोक्षमतिज्ञानमर्थतः सिद्धमितीष्यते, तर्हि श्रुतशब्दव्यपदेश्य
शाब्दज्ञानमपि परोक्षमतिज्ञानमेवाङ्गीक्रियतां, किमर्धजरतीयन्यायाश्रयणेन । 'मत्या जानामि', 'श्रुत्वा जानामि' इत्यनुभव एव अनयोर्भेदोपपादक इति चेत् ; न, 'अनुमाय जानामि', 'स्मृत्वा जानामि इत्यनुभवेनानुमानस्मृत्यादीनामपि भेदापत्तेः । अनुमितित्वादिकं मतित्वव्याप्यमेवेति यदीष्यते, शाब्दत्वमपि किं न तथा ? 'मत्या न जानामि' इति 30 प्रतीतिः तत्र बाधिकेति चेत् ; न, वैशेषिकाणां 'नानुमिनोमि' इति प्रतीतेरिव शाब्दे
१ यदाह वाच त। २ संसृष्टार्थ मुत। ३ °संसृष्टा मत। ४ योगख्यापनमिति त। ५ नच शाब्देऽशाब्द मु। ६ °स्मृतितकंप्रत्य मु। ७ तासिद्ध" अब । ८ जानामीत्याद्यनुभ त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org