________________
२. मति-श्रुतज्ञानचर्चा । प्रामाण्याग्राहकत्वमेव आहुः । यदेव च तेषामुपनयस्य' कृत्यं तदेव अस्माकमीहाया' इति कृतं प्रसङ्गेन । अवग्रहेहयोापरांशत्वमवायस्य च फलांशत्वमिति प्रदर्शनम् -
$४६. प्रकृतमनुसरामः । एताववग्रहेहाख्यौ व्यापारांशी । ईहानन्तरमपायः प्रवर्तते 'अयं घट एव' इति । अत्र च आसत्त्यादिजनितक्षयोपशमवशेन यावानीहितो धर्मः तावान् । प्रकारी भवति, तेनैकत्रैव 'देवदत्तोऽयं 'ब्राह्मणोऽयं' 'पाचकोऽयम्' इत्यादिप्रत्ययभेदोपपत्तिः । इत्थं च 'रूपविशेषात् मणिः पद्मरागः' इत्युपदेशोत्तरमपि तदाहितवासनावतो 'रूपविशेषात् अनेन पद्मरागेण भवितव्यम्' इति ईहोत्तरमेव 'अयं पद्मरागः' इत्यपापो युज्यते । उक्तोपदेशः पद्मरागपदवाच्यत्वोपमितावेव उपयुज्यते । 'अयं पद्मरागः" इति तु सामान्यावग्रहहाक्रमेणैवेति नैयायिकानुयायिनः । 'घटः' इत्यपायोत्तरमपि यदा 'किमयं ।। सौवर्णो मात्ों वा' इत्यादिविशेषजिज्ञासा प्रवर्तते, तदा पाश्चात्यापायस्य उत्तरविशेषावगमापेक्षया सामान्यालम्बनत्वात् व्यावहारिकावग्रहत्वम् । ततः 'सौवर्ण एवायम्' इत्यादिरपायः । तत्रापि उत्तरोत्तरविशेषजिज्ञासायां पाश्चात्यस्य पाश्चात्यस्य व्यावहारिकावग्रहत्वं द्रष्टव्यम् । जिज्ञासानिवृत्तौ तु अन्त्यविशेषज्ञानमवाय एवोच्यते, नावग्रहः, उपचारकारणाभावात् । अयं फलांशः। कालमानं तु अस्यान्तर्मुहूर्तमेव । सौदामिनीसम्पांतजनितप्रत्यक्षस्य । चिरमननुवृत्तेर्व्यभिचार इति चेत् ; न, अन्तर्मुहूर्तस्यासंख्यभेदत्वात् । धारणायाः परिपाकांशत्वमपायपार्थक्यं च
४७. अन्त्यविशेषावगमरूपापायोत्तरमविच्युतिरूपा धारणा प्रवर्तते । सापि आन्तमुहर्तिकी । अयं परिपाकांशः । वासनास्मृती तु सर्वत्र विशेषावगमे द्रष्टव्ये । तदाह जिनभद्रगणिक्षमाश्रमणः
"सामन्नमित्तग्गहणं नेच्छइओ समयमोग्गहो पढमो। तत्तोऽणंतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ सो पुण ईहाऽवायावेक्खाए ओग्गहो ति उवयरिओ। एस्सविसेसावेक्खं सामन्नं गिण्हए जेणं ॥ तत्तोऽणंतरमीहा तओ अवाओ अ तबिसेसस्स । इय सामन्नविसेसावेक्खा जावंतिमो भेओ॥ सव्वत्थेहावाया, णिच्छयओ मोत्तुमाइसामन्नं । संववहारत्थं पुण, सव्वत्थाऽवम्गहोऽवाओ ॥ तरतमजोगाभावेऽवाओ च्चिय धारणा तदंतम्मि । सव्वत्थवासणा पुण भणिया कालंतरे वि सई ॥" ति ॥
[विशेषा० गा० २८२-२८६]
.
25
30
१°नयकृत्यं त । २ ईहायाः साध्यमिति कृतं मु; ईहया साध्यमिति कृतं त। ३ देवदत्तोऽयं पाच मु ४ पद्मराग इति ज्ञानं सामा त। ५ °मेण इत्यन्ये नैया त। ६ किमयं घटः सौव मुत। ७ अन्तमौहूर्तिकी मु। ८ तदाह भगवान् जिनभ त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org