________________
•
१४
ज्ञानविन्दुप्रकरणम् ।
त्वात्, ज्ञानग्राहकसामग्र्यास्तु उपस्थितविशेष्यत्वादिग्राहकत्व एव व्यापारात् इत्येवमदोष इति चेत्; न, प्रामाण्यशरीरघटकस्यावच्छिन्नत्वस्य संसर्गतया भानोपगमे कार्येन प्रामाण्यस्य प्रकारत्वासिद्धेः, अंशतः प्रकारतया भानं च स्वाश्रयविशेष्यकत्वावच्छिन्नप्रकारतासम्बन्धेन रजतत्वस्य ज्ञानोपरि भानेऽपि सम्भवतीति तावदेव प्रामाण्यं स्यात्, अस्त्वेवं " ज्ञानग्राहकसामग्रयाः तथाप्रामाण्यग्रह एवं सामर्थ्यात्, अत एव नाप्रामाण्यस्य स्वतस्त्वमिति चेत्; न, एवमभ्युपगमे 'अप्रमापि प्रमेतीत्येव गृह्यते' इत्यस्य व्याघातात्, तत्र रजतत्वस्य ज्ञानोपर्युक्तसम्बन्धासम्भवात्, 'कम्बुग्रीवादिमान्नास्ति', 'वाच्यं नास्ति' इत्यादावन्वयितावच्छेदकावच्छिन्नप्रतियोगिताया इव प्रकृते उक्तसम्बन्धस्य तत्तदवगा - हितानिरूपितावगाहितारूपा विलक्षणैव खण्डशः सांसर्गिकविषयतेति न दोष इति चेत्; 10 न, तत्रापि लक्षणादिनैव बोधः, उक्तप्रतियोगितायास्तु 'घटो नास्ति' इत्यादावेव स्वरूपतः संसर्गत्वम् । उक्तं च मिश्रैः - “ अर्थापत्तौ नेह देवदत्त इत्यत्र प्रतियोगित्वं खरूपत एव भासत इत्येवं समर्थनात् । "
ae%
६४४, वस्तुतोऽस्माकं सर्वापि विषयता द्रव्यार्थतोऽखण्डा, पर्यायार्थतश्च सखण्डे सम्पूर्ण प्रामाण्यविषयताशालिबोधो न संवादकप्रत्ययं विना, न वा तादृशाप्रामाण्यविषय - 15 ताकबोधो बाधकप्रत्ययं विना इत्युभयोरनभ्यासदशायां परतस्त्वमेव, अभ्यासदशायां तु क्षयोपशमविशेषसध्रीचीनया तादृशतादृशेहया तथातथोभयग्रहणे स्वतस्त्वमेव । अत एव प्रामाण्यान्तरस्यापि न दुर्ग्रहत्वम्, स्वोपयोगापृथग्भूतेहोपनीतप्रकारस्यैव अपायेन ग्रहणात् । तादृशी च प्रामाण्यविषयता नावग्रहमात्रप्रयोज्यत्वेन लौकिकी, नापि पृथगुपयोगप्रयोज्यत्वेन अलौकिकी, किन्तु विलक्षणैवेति न किञ्चिदनुपपन्नं अनन्तधर्मात्मक20 वस्त्वभ्युपगमे । अत एव वस्तुसदृशो ज्ञाने ज्ञेयाकारपरिणाम इति विलक्षणप्रामाण्याकारवादेऽपि न क्षतिः । एवं च भ्रमे अरजतनिमित्तो रजताकारः, संवृतशुक्त्या कारायाः समुपात्तरजताकारायाः शुक्तेरेव तत्रालम्बनत्वात्, प्रमायां तु रजतनिमित्त इत्याकारतथात्वस्यौं ं, परतः स्वतोग्रहाभ्याम् “प्रामाण्याप्रामाण्ययोस्तदनेकान्तः” इति प्राचां वाचामपि विमर्शः कान्त एवेति द्रष्टव्यम् ।
25
30
४५. न्यायाभियुक्ता अपि यथा अभावलौकिकप्रत्ययस्तद्धर्मस्य प्रतियोगितावच्छेदकत्व - मवगाहमान एव तद्धर्मविशिष्टस्य प्रतियोगित्वमवगाहते तथा ज्ञानलौकिकसाक्षात्कारोऽपि तद्धर्मस्य विशेष्यतावच्छेदकत्वमवगाहमान एव तद्धर्मविशिष्टस्य विशेष्यतादिकमवगाहत" इति इदंत्वविशिष्टस्यैव विशेष्यत्वमवगाहेत", इदंत्वस्य विशेष्यतावच्छेदकत्वात् न तु रजतत्वादिविशिष्टस्य, रजतत्वादेरतथात्वात् इत्थं नियमस्तु लौकिके; तेनोपनयवशात् अलौकिकतादृशसाक्षात्कारेऽपि न क्षतिरिति वदन्तो विनोपनयं प्राथमिकानुव्यवसायस्य
१ °विशेष्यला' अ । २ ° ताकत्वसम्ब' त । ३ चेन्न, तत्रैवम् अ व । ४ ज्ञानोपयुक्त' त । ५ इत्यादा'वन्वि अ । ६ पिताविगाहि ब । ७ बोधः सदुक्त त । ८ पशमसध्री अ व । ९ तादृक्ताह ब । १० आलम्बनत्वात् इति शेषः । ११ गाहतेऽत इदं त । १२ गते इदं° त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org