________________
१३
२. मति-श्रुतज्ञानचर्चा । परास्ता । तत्र तद्वद्विशेष्यकतोपस्थितितदभाववद्विशेष्यकत्वाभावोपस्थित्यादीनां उत्तेजकत्वादिकल्पने महागौरवात् । यदि च विशेष्यत्वादिकमनुपस्थितं न प्रकारः, तदा विशेष्यितासम्बन्धेन रजतादिमत्त्वे सति प्रकारितया रजतत्वादिमत्त्वमेव प्रामाण्यमस्तु । एतज्ज्ञानमेव लाघवात् प्रवृत्त्यौपयिकम् । तस्माज्ज्ञप्तौ प्रामाण्यस्य स्वतस्त्वमेव युक्तम् । अप्रामाण्यं तु नानुव्यवसायग्राह्यम् , रजतत्वाभाववत्त्वेन पुरोवर्तिनोऽग्रहणे तथोपनीत- 5 भानायोगात्, रजतत्वादिमत्तया शुक्त्यादिधीविशेष्यकत्वं रजतत्वप्रकारकत्वं च तत्र गृह्यते, अत एव "अप्रमापि प्रमेत्येव गृह्यते" [ तत्त्वचि० प्रत्यक्षखण्ड, पृ० १७४ ] इति चिन्तामणिग्रन्थः, प्रमेतीत्येव व्याख्यातस्तांत्रिकैः इत्यप्रामाण्यस्य परतस्त्वमेव । न च 'प्रामाण्यस्य स्वतस्त्वे ज्ञानप्रामाण्यसंशयानुपपत्तिः, ज्ञानग्रहे प्रामाण्यग्रहात् तदग्रहे धर्मिग्रहाभावात्' इति वाच्यम् , दोषात् तत्संशयात् धर्मीन्द्रियसन्निकर्षस्यैव संशयहेतु- 10 त्वात् । प्राक् प्रामाण्याभावोपस्थितौ धर्मिज्ञानात्मक एव वास्तु प्रामाण्यसंशय इति खतस्त्वपरतस्त्वानेकान्तः प्रामाण्याप्रामाण्ययोः जैनानां न युक्त इति चेत् ;मीमांसकीयस्य दूषणस्योद्धारः
६४२. अत्र ब्रूमः-रजतत्ववद्विशेष्यकत्वावच्छिन्नरजतत्वप्रकारताकत्वरूपस्य रजतज्ञानप्रामाण्यस्य वस्तुसतोऽनुव्यवसायेन ग्रहणात् स्वतस्त्वाभ्युपगमेऽप्रामाण्यस्यापि स्वतस्त्वा- 15 पातः, रजतभ्रमानुव्यवसायेनापि वस्तुतो रजतत्वाभाववद्विशेष्यकत्वावच्छिन्नरजतत्वप्रकारताकत्वस्यैव ग्रहात् । तत्र च अस्माभिरनेकान्तवादिभिरिष्टापत्तिः कत्तुं शक्यते, द्रव्यार्थतः प्रत्यक्षस्य योग्यद्रव्यप्रत्यक्षीकरणवेलायां तद्तानां योग्यायोग्यानां धर्माणां सर्वेषामभ्युपगमात्, स्वपरपर्यायापेक्षया अनन्तधर्मात्मकं तत्त्वमिति वासनावत एकज्ञत्वे सर्वज्ञत्वध्रौव्याभ्युपगमाच्च ।
__जे एग जाणइ से सव्वं जाणइ ।
जे सव्वं जाणइ से एगं जाणइ ॥" [ आचा० १.३.४.१२२ ] त्ति । पारमर्षस्य इत्थमेव स्वारस्यव्याख्यानात् । अवोचाम च अध्यात्मसारप्रकरणे
____“आसत्तिपाटवाभ्यासखकार्यादिभिराश्रयन् ।
पर्यायमेकमप्यर्थं वेत्ति भावाद् बुधोऽखिलम् ॥" [ ६.३० ] इति । न चेयं रीतिरेकान्तवादिनो भवत इति प्रतीच्छप्रतिबन्दिदण्डप्रहारम् । अनेकान्तदृष्ट्या प्रामाण्याप्रामाण्ययोः स्वतस्त्वपरतस्त्वसमर्थनम् -
४३. ननु रजतत्ववद्विशेष्यकत्वरजतत्वप्रकारकत्वयोरेव ज्ञानोपरि भानम् , अवच्छिनत्वं तु तयोरेव मिथः संसर्गः, एकत्र भासमानयोयोधर्मयोः परस्परमपि सामानाधिकरण्येनेव अवच्छिन्नत्वेनापि अन्वयसम्भवात् इत्येवं प्रामाण्यस्य स्वतस्त्वम् , अप्रामाण्यस्य 30 तु न तथात्वम् , रजतत्वाभावस्य व्यवसायेऽस्फुरणेन तद्वद्विशेष्यकत्वस्य ग्रहीतुमशक्य
१°खादकल्प अब। २०विशेष्यता मु तव । ३ वस्तुतोऽनुव्य म। ४ योग्यायोग्यानां धर्माणां सर्वेषां प्रत्यक्षस्य अभ्युपगमात् इत्यन्वयः। ५°मेव खरसव्या त। ६ °कारखयोः मु। ७°रण्येनैव मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org