________________
१२
ज्ञानबिन्दुप्रकरणम् । याम्नातत्वात् । केवलं सत्संख्यादिमार्गणास्थानैः तन्निर्णयो भावसम्यक्त्वम् , सामान्यतस्तु द्रव्यसम्यक्त्वमिति विशेष इति । न च- 'घटाद्यपायेऽपि रुचिरूपत्वमिष्टमेव, सदसद्विशेषणाविशेषणादिना सर्वत्र ज्ञानाज्ञानव्यवस्थाकथनात् , तदेव च प्रामाण्यमप्रत्यूहम्' इति वाच्यम् ।
अनेकान्तव्यापकत्वादिप्रतिसन्धानाहितवासनावतामेव तादृशबोधसम्भवात् , तदन्येषां तु 5 द्रव्यसम्यक्त्वेनैव ज्ञानसद्भावव्यवस्थितेः । अत एव चरणकरणप्रधानानामपि स्वसमयपरसमयमुक्तव्यापाराणां द्रव्यसम्यक्त्वेन चारित्रव्यवस्थितावपि भावसम्यक्त्वाभावः प्रतिपादितः संमतौ महावादिना । द्रव्यसम्यक्त्वं च-“तदेव सत्यं निःशकं यजिनेन्द्रैः प्रवेदितम्" इति ज्ञानाहितवासनारूपम् , माषतुपाद्यनुरोधाद् गुरुपारतव्यरूपं वा इत्यन्य देतत् । तस्मान्नैते प्रामाण्यप्रकाराः प्रवृत्त्यौपयिकाः । 10४१. तद्वति तत्प्रकारकत्वरूपं ज्ञानप्रामाण्यं तु प्रवृत्त्यौपयिकमवशिष्यते, तस्य च स्वतो ग्राह्यत्वमेवोचितम् । न्यायनयेऽपि ज्ञाने पुरोवर्तिविशेष्यताकत्वस्य रजतत्वादिप्रकारकत्वस्य च अनुव्यवसायग्राह्यतायामविवादात् , 'इमं रजतत्वेन जानामि' इति प्रत्ययात् , तत्र विशेष्यत्वप्रकारत्वयोरेव द्वितीयातृतीयार्थत्वात् । तत्र पुरोवति इदंत्वेन रजतत्वादिनापि
चोपनयवशाद् भासताम् । न च- 'इदंत्ववैशिष्ट्यं पुरोवर्तिनि न भासते' - इति वाच्यम् । 15 विशेष्यतायां पुरोवर्तिनः स्वरूपतो 'भानानुपपत्तेः तादृशविशेषणज्ञानाभावात् , अन्यथा प्रमेयत्वादिना रजतादिज्ञानेपि तथाज्ञानापत्तेः, जात्यतिरिक्तस्य किञ्चिद्धर्मप्रकारेणैव भाननियमाच्च । किञ्च, प्रामाण्यसंशयोत्तरम् 'इदं रजतं न वा' इत्येव संशयो, न तु 'रजतमिदं न वा', 'द्रव्यं रजतं न वा' इत्यादिरूप इति यद्विशेष्यकयत्प्रकारकज्ञानत्वावच्छेदेन प्रामाण्यसंशयः तद्धर्मविशिष्टे तत्प्रकारकसंशय इति नियमात् इदंत्वेन धर्मिभानमावश्यकम् , 20 इदंत्वरजत्वादिना पुरोवर्तिन उपनयसत्त्वाच तथाभानमनुव्यवसाये दुर्वारमिति किमपरमवशिष्यते प्रामाण्ये ज्ञातुम् ? । न च 'एकसम्बन्धेन तद्वति सम्बन्धान्तरेण तत्प्रकारकज्ञानव्यावृत्तं तेन सम्बन्धेन तत्प्रकारकत्वमेव प्रामाण्यम् , तच्च दुर्ग्रहम् इति वाच्यम् ; व्यवसाये येन सम्बन्धेन रजतत्वादिकं प्रकारः तेन तद्वतोऽनुव्यवसाये भानात् , संसर्गस्य तत्त्वेनैव भानात् । तत्प्रकारत्वं च वस्तुगत्या तत्सम्बन्धावच्छिन्नप्रकारताकत्वमिति प्रकारताकुक्षि25 प्रवेशेनैव वा तद्भानम् । अत एव-इदं रजतमिति तादात्म्यारोपव्यावृत्तये मुख्यविशेष्यता प्रामाण्ये निवेशनीयेति मुख्यत्वस्य दुर्ग्रहत्वमित्युक्तेरपि अनवकाशः, वस्तुगत्या मुख्यविशेष्यताया एव निवेशात् , तादात्म्यारोपे आरोप्यांशे समवायेन प्रामाण्यसत्त्वेऽपि अक्षतेश्च । एतेन-तद्विशेष्यकत्वे सति तत्प्रकारकत्वमा न प्रामाण्यम्, 'इमे रङ्गरजते' 'नेमे रङ्गरजते' इति विपरीतचतुष्कभ्रमसाधारण्यात् , किन्तु तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारक30 त्वम् , तच प्रथमानुव्यवसाये दुर्ग्रहमित्यपि निरस्तम् । वस्तुगत्या तादृशप्रकारताकत्वस्य
सुग्रहत्वादेव, तद्ग्रहे अनुव्यवसायसामग्र्या असामर्थ्यस्य, व्यवसायप्रतिबन्धकत्वस्य वा कल्पनं अभिनिवेशेन खबुद्धिविडम्बनामात्रम्, तथाकल्पनायामप्रामाणिकगौरवात् । एतेन विधेयतया अनुव्यवसाये स्वातत्र्येण प्रामाण्यभाने व्यवसायप्रतिबन्धकत्वकल्पनापि
१°वतामेताह म्। २ ज्ञानव्यव त। ३ प्रवृत्त्यौपयोगिकाः म। ४ वर्तिनः अनुव्यवसाये स्वरू' अ। ५भावानुप अ ६ ज्ञानं व्या म्। ७°स्य (तु) तत्त्वे म्। ८ °साये प्रामा त।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org