________________
२. मति-श्रुतज्ञानचर्चा । प्रवृत्तावपीन्द्रियादिगतगुणदोषसंशयेन विषयसंशयात् इन्द्रियसाद्गुण्यविचारणमपीहयैव जन्यते । केवलमभ्यासदशायां तज्झटिति जायमानत्वात् कालसौक्ष्म्येण नोपलक्ष्यते, अनभ्यासदशायां तु वैपरीत्येन स्फुटमुपलक्ष्यत इति मलयगिरिप्रभृतयो वदन्ति ।
३९. एवं सति स्वजन्यापाये सर्वत्र अर्थयाथात्म्यनिश्चयस्य ईहयैव जन्यमानत्वात् "तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु खतः परतश्च" - इत्याकरसूत्रं विरुध्येत । 'तदुभयम्' - 5 प्रामाण्यमप्रामाण्यं च 'परत एव' इति कारणगतगुणदोषापेक्षयेत्यर्थः । 'स्वतः परतश्च' इति । संवादकबाधकज्ञानानपेक्षया जायमानत्वं स्वतस्त्वम् । तच अभ्यासदशायाम् , केवलक्षयोपशमस्यैव तत्र व्यापारात । तदपेक्षया जायमानत्वं च परतस्त्वम् । तच्च अनभ्यासदशायाम् । अयं च विभागो विषयापेक्षया, स्वरूपे तु सर्वत्र स्वत एव प्रामाण्यनिश्चय इत्यक्षरार्थ इति । ईहयैव हि सर्वत्र प्रामाण्यनिश्चयाभ्युपगमे किं संवादकप्रत्ययापेक्षया ?।। न खल्वेकं गमकमपेक्षितमिति गमकान्तरमपि अपेक्षणीयम् । न च 'ईहाया बहुविधत्वात् यत्र न करणसाद्गुण्यविचारः तत्रैव उक्तवतस्त्वपरतस्त्वव्यवस्था' इति वाच्यम् ; ईहायां क्वचिदुक्तविचारव्यभिचारोपगमे आभ्यासिकापायपूर्वेहायां अनुपलक्ष्यमाणस्यापि तद्विचारस्य नियमकल्पनानुपपत्तेः । न चोक्तविचार ईहायां प्रमाजनकतावच्छेदकः । न तु तज्ज्ञप्तिजनकतावच्छेदक इत्यपि युक्तम् , करणगुणादेव प्रमोत्पत्तौ तस्यातथात्वात् । न 15 च 'भाविज्ञानस्य असिद्धत्वात् उक्तविचारवत्यापीहया तद्गतप्रामाण्याग्रहः' इत्यपि साम्प्रतम् ; विचारेण करणसाद्गुण्यग्रहे भाविज्ञानप्रामाण्यग्रहस्यापि संभृतसामग्रीकत्वात् इत्यादिविचारणीयम् । प्रामाण्याप्रामाण्ययोः स्वतस्त्वपरतस्त्वानेकान्ते मीमांसकमतेन दूषणम् -
६४०. ननु भवतां सैद्धान्तिकमते उपयोगे-अवग्रहादिवृत्तिचतुष्टयव्याप्यत्वम् , एकत्र 20 वस्तुनि प्राधान्येन सामान्यविशेषोभयावगाहित्वपर्याप्त्याधारत्वं वा; तार्किकमते च प्रमेयाव्यभिचारित्वं-प्रामाण्यं अयोग्यत्वात् अभ्यासेनापि दुर्ग्रहम् , समर्थप्रवृत्त्यनौपयिकत्वेन अनुपादेयं च । पौगलिकसम्यक्त्ववतां सम्यक्त्वदलिकान्वितोऽपायांशः प्रमाणम् , क्षायिकसम्यक्त्ववतां च केवलोऽपायांश इति तत्त्वार्थवृत्त्यादिवचनतात्पर्यपालोचनायां तु सम्यक्त्वसमानाधिकरणापायत्वं ज्ञानस्य प्रामाण्यं पर्यवस्यति, अन्यथाऽननुगमात् । तत्र 25 च विशेषणविशेष्यभावे विनिगमनाविरहः । 'ज्ञानं प्रमाणम्' इति वचनं विनिगमकमिति चेत् । तदपि समर्थप्रवृत्त्यौपयिकेन रूपेण विनिगमयेत्, न तु विशिष्टापायत्वेनानीदृशेन । सम्यक्त्वानुगतत्वेन ज्ञानस्य ज्ञानत्वम् , अन्यथा त्वज्ञानत्वमिति व्यवस्था तु नापायमात्रप्रामाण्यसाक्षिणी, सम्यग्दृष्टिसम्बन्धिनां संशयादीनामपि ज्ञानत्वस्य महाभाष्यकृता परिभाषितत्वात् । न च- 'सम्यक्त्वसाहित्येन ज्ञानस्य रुचिरूपत्वं संपद्यते, रुचिरूपंच ज्ञानं 30 प्रमाणमिति सम्यक्त्वविशेषणोपादानं फलवद्' इत्यपि साम्प्रतम् , एतस्य व्यवहारोपयोगित्वेऽपि प्रवृत्त्यनुपयोगित्वात् । न च घटाद्यपायरूपा रुचिरपि सम्यक्त्वमिति व्यवहरन्ति सैद्धान्तिकाः, जीवाजीवादिपदार्थनवकविषयकसमूहालम्बनज्ञानविशेषस्यैव रुचिरूपत१ साद्गुणवि अब। २ °स्य निरनुपपत्तेः मु। ३ °साद्गुण्यस्य आहे त । ४ देयं पौद् मु अ ब ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org