________________
ज्ञानबिन्दुप्रकरणम् । मुक्तमेव लक्षणमिति । इह गोवृषन्यायेन त्रिविधोपलब्धिरूपभावश्रुतग्रहणमिति त्वस्माकमाभाति ।
३३. अवग्रहादिक्रमवदुपयोगत्वेनापि च मतिज्ञान एव जनकता, न श्रुतज्ञाने, तत्र शाब्दोपयोगत्वेनैव हेतुत्वात् । 5 चतुर्णामवग्रहादीनां कार्यकारणत्वपरिष्कारः
६३४. मतिज्ञाने च नानवगृहीतमीयते, नानीहितमपेयते, नानपेतं च धार्यते, इति क्रमनिवन्धनमन्वयव्यतिरेकनियममामनन्ति मनीषिणः । तत्र - अवग्रहस्य ईहायां धर्मिज्ञानत्वेन, तदवान्तरधर्माकारेहायां तत्सामान्यज्ञानत्वेन वा; ईहायाश्च तद्धर्मप्रकारतानिरूपिततद्धर्मिनिष्ठसिद्धत्वाख्यविषयतावदपायत्वावच्छिन्ने तद्धर्मप्रकारतानिरूपिततद्धर्मिनिष्ठसा10 ध्यत्वाख्यविषयतावदीहात्वेन, घटाकारावच्छिन्नसिद्धत्वाख्यविषयतावदपायत्वावच्छिन्ने तादृशसाध्यत्वाख्यविषयतावदीहात्वेन वा; धारणायां च अपायस्य समानप्रकारकानुभवत्वेन, विशिष्टभेदे समानविषयकानुभवत्वेन वा कार्यकारणभावः । अवग्रहं द्वेधा विभज्य तयोः परस्परं संबन्धविचारः
६३५. तत्र अवग्रहो द्विविधो व्यञ्जनावग्रहार्थावग्रहभेदात् । तत्र व्यञ्जनेन शब्दादि15 परिणतद्रव्यनिकुरम्बेण व्यञ्जनस्य श्रोत्रेन्द्रियादेरवग्रहः सम्बन्धो व्यञ्जनावग्रहः । स च
मल्लकप्रतिबोधकदृष्टान्ताभ्यां सूत्रोक्ताभ्यामसंख्येयसमयभावी । तस्यामप्यवस्थायां अव्यक्ता ज्ञानमात्रा प्रथमसमयेऽशेन अभवतश्चरमसमये भवनान्यथानुपपत्त्या भाष्यकृता प्रतिपादिता । युक्तं चैतत् , निश्चयतोऽविकलकारणस्यैव कार्योत्पत्तिव्याप्यत्वात् । अविकलं
च कारणं ज्ञाने उपयोगेन्द्रियमेव । तच्च व्यञ्जनावग्रहकाले लब्धसत्ताकं कथं न खकार्य 20 ज्ञानं जनयेदिति अयमुपयोगस्य कारणांशः ।
३६. ननु व्यञ्जनावग्रहः प्राप्यकारिणामेवेन्द्रियाणामुक्तो नाप्राप्यकारिणोः चक्षुर्मनसोरिति तत्र कः कारणांशो वाच्यः ? । यदि अर्थावग्रहस्तर्हि सर्वत्र स एवास्त्विति चेत् ; न, तत्रापि अर्थावग्रहात् प्राग्लब्धीन्द्रियस्य ग्रहणोन्मुखपरिणाम एव उपयोगस्य कारणांश इत्युपगमात् । न च सर्वत्र एकस्यैव आश्रयणमिति युक्तम्, इन्द्रियाणां 25 प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थाप्रयुक्तस्स ह्रस्वदीर्घकारणांशभेदस्य आगमयुक्त्युपपनत्वेन प्रतिबन्दिपयेनुयोगानवकाशात् ।
६३७. अर्थावग्रहः-सामान्यमात्रग्रहः, यतः 'किश्चिदृष्टं मया, न तु परिभावितम्' इति व्यवहारः । स चैकसामयिकः । प्रामाण्यज्ञप्तौ ईहासामर्थ्यपरीक्षा30६३८. तत ईहोपयोग आन्तौहूर्तिकः प्रवर्तते । स च सद्भूतासद्भूतविशेषोपादानत्यागाभिमुखबहुविचारणात्मकः पर्यन्ते तत्तत्प्रकारेण धर्मिणि साध्यत्वाख्यविषयताफलवान् भवति । अत एव फलप्रवृत्तौ ज्ञानप्रामाण्यसंशयात् विषयसंशयवत् करण१ कः करणांशो त। २ दीर्घकरणांश अ ब । ३ आन्तर्मुहूर्तिकः त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org