________________
२. मति-श्रुतज्ञानचर्चा । विभाव्यते, तदा पदार्थ बोधयित्वा विरतं वाक्यं वाक्यार्थबोधादिरूपविचारसहकृतमावृत्त्या विशेष बोधयदैदम्पर्थिकत्वव्यपदेशं लभत इति मन्तव्यम् । परं शब्दसंस्पृष्टार्थग्रहणव्यापृतत्वे पदपदार्थसम्बन्धग्राहकोहादिवत् तस्य कथं न श्रुतत्वम् ?, शब्दसंस्पृष्टार्थग्रहणहेतुरुपलब्धिविशेषो धारणसमानपरिणामः श्रुतमिति नन्दिवृत्यादौ दर्शनात् । पूर्वगतगाथाया व्याख्यामाश्रित्य श्रुतलक्षणानुगमनम् -
"सोइंदिओवलद्धी होइ सुअं सेसयं तु मइनाणं ।।
मोत्तूणं दव्वसुअं अक्खरलंभो अ सेसेसु ॥" [ विशेषा० गा० ११७ ] इति पूर्वगतगाथायामपि अयमेव स्वरसो लभ्यते ।
६२९. तथा च अस्यार्थः-श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यवधारणम् , न तु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेति । अवग्रहेहादिरूपायाः श्रोत्रेन्द्रियोपलब्धेरपि मतिज्ञानरूप-॥ त्वात् । यद्भाष्यकार:
"सोइंदिओवलद्धी चेव सुअं न उ तई सुअं चेव ।
__ सोइंदिओवलद्धी वि काई जम्हा मइन्नाणं ॥" [ विशेषा० गा० १२२] शेषं तु यच्चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मतिज्ञानम् । तु शब्दोऽनुक्तसमुच्चयार्थः। स च अवग्रहेहादिरूपां श्रोत्रेन्द्रियोपलब्धिमपि समुचिनोति, यद्भाष्यकार:
"तुसमुच्चयवयणाओ व काई सोइंदिओवलद्धी वि।
मह एवं सइ सोउग्गहादओ होंति मइभेया ॥" [ विशेषा० गा० १२३ ] ६३०. अपवादमाह-मुक्त्वा द्रव्यश्रुतं पुस्तकपत्रकादिन्यस्ताक्षररूपम् । तदाहितायाः शब्दार्थपर्यालोचनात्मिकायाः शेपेन्द्रियोपलब्धेरपि श्रुतत्वात् । अक्षरलाभश्च यः शेषेष्वपीन्द्रियेषु शब्दार्थपर्यालोचनात्मकः, न तु केवलः, तस्येहादिरूपत्वात्, तमपि मुक्त्वेति 20 सोपस्कारं व्याख्येयम् ।
६३१. नन्वेवं शेषेन्द्रियेष्वपि अक्षरलाभस्य श्रुतत्वोक्तेः श्रोत्रेन्द्रियोपलब्धिरेव श्रुतमिति प्रतिज्ञा विशीर्यत । मैवम् , तस्यापि श्रोत्रेन्द्रियोपलब्धिकल्पत्वादिति बहवः।
३२. श्रोत्रेन्द्रियोपलब्धिपदेन श्रोत्रेन्द्रियजन्यव्यञ्जनाक्षरज्ञानाहिता शाब्दी बुद्धिः, द्रव्यश्रुतपदेन च चक्षुरादीन्द्रियजन्यसंज्ञाक्षरज्ञानाहिता सा, अक्षरलाभपदेन च तदतिरि- 25 क्तश्रुतज्ञानावरणकर्मक्षयोपशमजनिता बुद्धिर्गृह्यत इति सर्वसाधारणो धारणाप्रायज्ञानवृत्तिशब्दसंस्पृष्टाकारविशेष एवानुगत लक्षणम् , त्रिविधाक्षरश्रुताभिधानप्रस्तावेऽपि संज्ञाव्यञ्जनयोः द्रव्यश्रुतत्वेन, लब्धिपदस्य च उपयोगार्थत्वेन व्याख्यानात् । तत्र चानुगत
१ °संसृष्टा मु अ त । २ °संसृष्टा मु। ३ हेतुरूपल ब। ४ नन्दीवृत्तौ तु इत्थं पाठः-“वाच्यवाचकभावपुरस्सरीकारेण शब्दसंमृष्टार्थग्रहणहेतुरुपलब्धिविशेषः । “एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दवाच्यम्' इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः ।" अयमेव च पाठः संगतो भाति। केनापि कारणेन सर्वासु प्रतिषु त्रुटितः स्यात्-सं०। ५ अभिप्रायः अ-टि०। ६ °न्द्रियेणोपलब्धिः म्। ७ रूपं तन्मति मु अब। ८ °पत्रादि मु। ९ °स्कार साझोपाझं व्या अ। १० °संसृष्टा मु। ११ गतलक्षणम् मु।
ज्ञा०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org