SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ज्ञानबिन्दुप्रकरणम् । वकाशः । सोऽयमिपोरिव दीर्घदीर्घतरो व्यापारः 'यत्परः शब्दः स शब्दार्थः' इति नयाश्रयणात् । ६२३. एतेन-'न हिंस्यात्' इत्यादिनिषेधविधौ विशेषविधिबाधपर्यालोचनया, अनुमितौ व्यापकतानवच्छेदकेनापि विशेषरूपेण व्यापकस्येव, शाब्दबोधे तत्तद्विहितेतर5 हिंसात्वेन वृत्त्यनवच्छेदकरूपेणापि निषेध्यस्य प्रवेशः-इति निरस्तम् । उक्तबाधपालोचनस्य प्रकृतोपयोगान्तर्भावे अस्मदुक्तप्रकारस्यैव साम्राज्यात् , तदनन्तर्भावे च तस्य सामान्यवाक्यार्थबोधेन सह मिलनाभावेन विशेषपर्यवसायकत्वासम्भवात् । ६२४. अव्यवहितद्विवक्षणमध्ये एकविशेषबाधप्रतिसन्धानमेव सामान्यवाक्यार्थस्य तदितरविशेषपर्यवसायकमिति कल्पनायां न दोष इति चेत्, न, द्विवक्षणाननुगमात् , 10 पटुसंस्कारस्य पञ्चषक्षणव्यवधानेऽपि फलोत्पत्तेश्च संस्कारपाटवस्यैव अनुगतस्य अनुसरणौचित्यात् । तच्च गृहीतेऽर्थे मतिश्रुतसाधारणविचारणोपयोग एवोपयुज्यते । अत एव सामान्यनिषेधज्ञाने विरोधसम्बन्धेन विशेषविधिस्मृतावपि विचारणया तदितरविशेषपर्यवसानम् । ६२५. अपि च 'स्वर्गकामो यजेत' इत्यत्र यथा परेषां प्रथमं स्वर्गत्वसामानाधिकर15 ण्येनैव यागकार्यताग्रहः, अनन्तरं च अनुगतानतिप्रसक्तकार्यगतजातिविशेषकल्पनम् , तथा प्रकृतेऽपि हिंसात्वसामानाधिकरण्येन पापजनकत्वबोधे अनन्तरं तद्गतहेतुतावच्छेदकानुगतानतिप्रसक्तरूपकल्पने किं बाधकम् ?, सर्वशब्दबलेन हिंसासामान्योपस्थितावपि तद्गतहेतुस्वरूपानुबन्धकृतविशेषस्य कल्पनीयत्वात् । सैव च कल्पना वाक्यार्थबोधात्मिकेति न तदुच्छेदः। 20 ६२६. किञ्च, पदार्थबोधात् हिंसासामान्ये अनिष्टसाधनत्वग्रहे आहारविहारादिक्रिया खनिष्टसाधनत्वव्याप्यहिंसात्वारोपेण अनिष्टसाधनत्वारोपलक्षणतर्कात्मक एव वाक्यार्थबोधः । तस्य युक्त्या विपर्ययपर्यवसानात्मको महावाक्यार्थबोधः । ततो हेतुस्वरूपानुबन्धत्रयविषय एव हिंसापदार्थ इत्यैदम्पर्यार्थबोधः, इत्येते बोधा अनुभवसिद्धत्वादेव दुर्वारा। 25 श्रुतज्ञानाभ्यन्तरस्य मतिविशेषस्य श्रुतत्वसमर्थनम् - ६२७. श्रुतज्ञानमूलोहादेश्च श्रुतत्वं मति-ज्ञानमूलोहादेः मतिज्ञानत्ववदेवाभ्युपेयम् । अत एव श्रुतज्ञानाभ्यन्तरीभूतमतिविशेषैरेव षट्स्थानपतितत्वं चतुर्दशपूर्वविदामपि आचक्षते सम्प्रदायवृद्धाः । तथा चोक्तं कल्पभाष्ये - "अक्खरलंभेण समा ऊणहिया हुंति मइविसेसेहिं ।। ते विय मई विसेसा सुअनाणब्भन्तरे जाण ॥" [ विशेषा० गा० १४३ ] २८. यदि च सामान्यश्रुतज्ञानस्य विशेषपर्यवसायकत्वमेव मतिज्ञानस्य श्रुतज्ञानाभ्यन्तरीभूतत्वम् , उपयोगविच्छेदेऽपि एकोपयोगव्यवहारश्च फलप्राधान्यादेवेति १°साधाविचा० अब।२ ज्यते इति । अत त। ३ अनन्तरमनुत। ४ ते पुण मत। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy