________________
२. मतिश्रुतज्ञानचर्चा । श्रुतज्ञानमध्य एव परिगणनीयम् । उक्तवासनाप्रबोधासमानकालीनं च मतिज्ञानं औत्पत्तिक्यादिचतुर्भेदमश्रुतनिश्रितमित्यभिप्रायेण द्विधाविभागे' दोषाभावः । तदिदमाह महाभाष्यकार:
"पुश्विं सुअपरिकम्मियमइस्स जं संपयं सुआई। तं णिस्सियमियरं पुण अणिस्सिों मइचउक्कं तं ॥" [ विशेषा० गा० १६९ ] इति । ।
१७. अपूर्वचैत्रादिव्यक्तिबुद्धौ त्वौत्पत्तिकीत्वमेव आश्रयणीयम् , ऐन्द्रियकश्रुतज्ञानसामान्ये धारणात्वेन, तदिन्द्रियजन्यश्रुते तदिन्द्रियजन्यधारणात्वेनैव वा हेतुत्वात् , प्रागनुपलब्धेऽर्थे श्रुतज्ञानाहितवासनाप्रबोधाभावेन श्रुतनिश्रितज्ञानासम्भवात् । धारणायाः श्रुतहेतुत्व एव च मतिश्रुतयोः लब्धियोगपद्येऽपि उपयोगक्रमः सङ्गच्छते । प्रागुपलब्धार्थस्य चोपलम्भे धारणाहितश्रुतज्ञानाहितवासनाप्रबोधान्वयात् श्रुतनिश्रितत्वमा- " वश्यकम् ।
१८. धारणादिरहितानामेकेन्द्रियादीनां तु आहारादिसंज्ञान्यथानुपपत्त्या अन्तर्जल्पाकारॉविवक्षितार्थवाचकशब्दसंस्पृष्टार्थज्ञानरूपं श्रुतज्ञानं क्षयोपशममात्रजनितं जात्यन्तरमेव ।
१९. आप्तोक्तस्य शब्दस्य ऊहाख्यप्रमाणेन पदपदार्थशक्तिग्रहानन्तरमाकाङ्क्षाज्ञानादिसाचिव्येन जायमानं तु ज्ञानं स्पष्टधारणाप्रायमेव पदार्थादिरूपचतुर्विधवाक्यार्थज्ञानस्य श्रुतरूपैकदीर्घोपयोगत्वसमर्थनम् -
२०. शाब्दबोधपरिकरीभूतश्च यावान् प्रमाणान्तरोत्थापितोऽपि बोधः सोऽपि सर्वः श्रुतमेव ।
६२१. अत एव पदार्थवाक्यार्थमहावाक्याथैदम्पर्यार्थभेदेन चतुर्विधवाक्यार्थज्ञाने ऐदम्पर्थिनिश्चयपर्यन्तं श्रुतोपयोगव्यापारात् सर्वत्र श्रुतत्वमेव इत्यभियुक्तैरुक्तमुपदेशपदादौ । 20 तत्र-"सव्वे पाणा सव्वे भूआ ण हंतव्वा ।" इत्यादौ यथाश्रुतमात्रप्रतीतिः पदार्थबोधः । एवं सति हिंसात्वावच्छेदेन अनिष्टसाधनत्वप्रतीतेः आहारविहारदेवार्चनादिकमपि प्राणोपघातहेतुत्वेन हिंसारूपत्वात् अकर्तव्यं स्यादिति वाक्यार्थबोधः । यतनया क्रियमाणा आहारविहारादिक्रिया न पापसाधनानि, चित्तशुद्धिफलत्वात् । अयतनया क्रियमाणं तु सर्व हिंसान्तर्भावात् पापसाधनमेवेति महावाक्यार्थबोधः । 'आज्ञैव धर्मे सारः' इत्यपवाद- 25 स्थलेऽपि गीतार्थयतनाकृतयोगिकारणपदैः निषिद्धस्याप्यदुष्टत्वम्, विहितक्रियामात्रे च स्वरूपहिंसासम्भवेऽपि अनुबन्धहिंसाया अभावात् न दोपलेशस्यापि अवकाश इत्यैदम्पर्यार्थबोधः।
६२२. एतेषु सर्वेषु एकदीर्घोपयोगव्यापारात् न श्रुतान्यज्ञानशङ्का, ऐदम्पर्यबोधलक्षणफलव्याप्यतयैव श्रुतस्य लोकोत्तरप्रामाण्यव्यवस्थितेः । वाक्येऽपि क्रमिकतावद्धोध- 30 जनके तथात्वव्युत्पत्तिप्रतिसन्धानवति व्युत्पत्तिमति पुरुषे न विरम्यव्यापारादिदूषणा
१ द्विविधभागे मु। २ चतुकं त । ३ °जल्पाकारवि मु । ४ °वाचकं श° मु। ५ आप्तोक्तशब्द त। ६ तथात्वव्युत्पत्तिमति पुरुषे अब। ७°वति न वि त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org