________________
ज्ञानबिन्दुप्रकरणम् । ६१३. मिथ्यात्वाऽऽद्यद्वादशकषायरहितानां शेषमोहनीयप्रकृतीनां तु प्रदेशोदये विपाकोदये वा क्षयोपशमोऽविरुद्धः, तासां देशघातिनीत्वात् । तदीयसर्वघातिरसस्य देशघातित्वपरिणामे हेतुः चारित्रानुगतोऽध्यवसायविशेष' एव द्रष्टव्यः । परं ता प्रकृतयोऽध्रुवोदया इति तद्विपाकोदयाभावे क्षायोपशमिकभावे विजृम्भमाणे, प्रदेशोदयवत्योऽपि न 5 ता मनागपि देशघातिन्यः । विपाकोदये तु प्रवर्तमाने क्षायोपशमिकभावसम्भवे मनाग्मालिन्यकारित्वात् देशघातिन्यस्ता भवन्तीति संक्षेपः । विस्तरार्थिना तु मत्कृतकर्मप्रकृतिविवरणादिविशेषग्रन्था अवलोकनीयाः। उक्ता क्षयोपशमप्रक्रिया।
[२. मति-श्रुतज्ञानचर्चा ।] ६१४. इत्थं च सर्वघातिरसस्पर्धकवन्मतिज्ञानावरणादिक्षयोपशमजनितं मतिश्रुतावधि10 मनःपर्यायभेदात् चतुर्विधं क्षायोपशमिकं ज्ञानम् , पञ्चमं च क्षायिकं केवलज्ञानमिति पञ्च प्रकारा ज्ञानस्य। मतिज्ञानस्य लक्षणम् -
६१५. तत्र, मतिज्ञानत्वं श्रुताननुसार्यनतिशयितज्ञानत्वम् , अवग्रहादिक्रमवदुपयोगजन्यज्ञानत्वं वा । अवध्यादिकमतिशयितमेव । श्रुतं तु श्रुतानुसार्यवेति न तयोरतिव्याप्तिः । 15 श्रुतानुसारित्वं च धारणात्मकपदपदार्थसम्बन्धप्रतिसन्धानजन्यज्ञानत्वम् । तेन न सविकल्पकज्ञानसामग्रीमात्रप्रयोज्यपदविषयताशालिनीहापायधारणात्मके मतिज्ञानेऽव्याप्ति:ईहादिमतिज्ञानभेदस्य श्रुतज्ञानस्य च साक्षरत्वाविशेषेऽपि । 'अयं घटः' इत्यपायोत्तरम् 'अयं घटनामको न वा' इति संशयादर्शनात् तत्तन्नाम्नोऽप्यपायेन ग्रहणात् तद्धारणोपयोगे 'इदं पदमस्य वाचकम्', 'अयमर्थ एतत्पदस्य वाच्यः' इति पदपदार्थसम्बन्धग्रहस्यापि 20 ध्रौव्येण तजनितश्रुतज्ञानस्यैव श्रुतानुसारित्वव्यवस्थितेः । अत एव धारणात्वेन
श्रुतहेतुत्वात्-"मइपुव्वं सुअं।" [ नन्दी० २४ ] इत्यनेन श्रुतत्वावच्छेदेन मतिपूर्वत्वविधिः । “न मई सुअपुल्विया ।" [ नन्दी० २४ ] इत्यनेन च मतित्वसामानाधिकरण्येन श्रुतपूर्वत्वनिषेधोऽभिहितः सङ्गच्छते । श्रुतनिश्रिताश्रुतनिश्रितमतिज्ञानयोर्लक्षणम् - is ६१६. कथं तर्हि श्रुतनिश्रिताश्रुतनिश्रितभेदेन मतिज्ञानद्वैविध्याभिधानमिति चेत्; उच्यते-स्वसमानाकारश्रुतज्ञानाहितवासनाप्रबोधसमानकालीनत्वे सति श्रुतोपयोगाभावकालीनं श्रुतनिश्रितमवग्रहादिचतुर्भेदम् । उक्तवासनाप्रबोधो धारणादाायोपयुज्यते, श्रुतोपयोगाभावश्च मतिज्ञानसामग्रीसम्पादनाय, उक्तवासनाप्रबोधकाले श्रुतज्ञानोपयोगबलाछुतज्ञानस्यैवापत्तेः, मतिज्ञानसामग्र्याः श्रुतज्ञा प्रतिबन्धकत्वेऽपि शाब्देच्छास्थानीयस्य 30 तस्य उत्तेजकत्वात् । मतिज्ञानजन्यस्मरणस्य मतिज्ञानत्ववत् श्रुतज्ञानजन्यं स्मरणमपि च
४ योगे बला अ, श्रुतयोगोपयोगे
१०शेषो द्रष्टव्यः त। २ तु वर्तमाने मु। ३ मालिन्यं का त। श्रुतज्ञान ब। ५ ज्ञानोत्पत्तिप्रतिमु त। ६ जन्यस्मरण मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org