________________
१. सामान्यचर्चया ज्ञानस्य पीठिकाबन्धः । चिच्च तामन्तरेणैव स्यात् , भवप्रत्ययगुणप्रत्ययभेदेन तस्य द्वैविध्योपदर्शनात् । मन:पर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव, तथास्वभावानामेव बन्धकाले तेषां बन्धनात् । चक्षुर्दर्शनावरणादेरपि तत्तदिन्द्रियपर्याप्स्यादिघटितसामग्र्या तथापरिणामः । मतिश्रुतावरणाऽचक्षुर्दर्शनावरणान्तरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पर्धकानामुदयो न सर्वघातिनाम, ततः सदैव तासां औदयिकक्षायोपशमिको । भावौ संमिश्री प्राप्येते, न केवल औदयिक इति उक्तं पञ्चसङ्ग्रहमूलटीकायाम् । एतच तासां सर्वघातिरसस्पर्धकानि येन तेनाध्यवसायेन देशघातीनि कर्तुं शक्यन्ते इत्यभ्युपगमे सति उपपद्यते अन्यथा बन्धोपनीतानां मतिज्ञानावरणादिदेशघातिरसस्पर्धकानां अनिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेष्वेव सम्भवात् तदर्वाग् मतिज्ञानाद्यभावप्रसङ्गः, तदभावे च तबललभ्यतदवस्थालाभानुपपत्तिरिति अन्योयाश्रयापातेन मतिज्ञा- 10 नादीनां मूलत एव अभावप्रसङ्गात् । एवं मतिश्रुताज्ञानाचक्षुर्दर्शनादीनामपि क्षायोपशमिकत्वेन भणनात् सर्वघातिरसस्पर्धकोदये तदलाभात् देशघातिरसस्पर्धकानां च अर्वागबन्धात् अध्यवसायमात्रेण सर्वघातिनो देशघातित्वपरिणामानभ्युपगमे सर्वजीवानां तल्लाभानुपपत्तिरिति भावनीयम् ।
१०. ननु यदि येन तेनाध्यवसायेन उक्तरसस्पर्धकानां सर्वघातिनां देशघातितया 15 परिणामः तदा अर्वाग्दशायां तद्भन्ध एव किं प्रयोजनमिति चेत् । तत् किं 'प्रयोजनक्षतिभिया सामग्री कार्य नार्जयति' इति वक्तुमध्यवसितोऽसि ? । एवं हि पूर्णे प्रयोजने दृढदण्डनुन्नं चक्रं न भ्राम्येत । तस्मात् प्रकृते हेतुसमाजादेव सर्वघातिरसस्पर्धकबन्धौपयिकाध्यवसायेन तद्वन्धे तत्तदध्यवसायेन सर्वदा तद्देशघातित्वपरिणामे च बाधकाभावः।
११. तदेवं ज्ञानावरणदर्शनावरणान्तरायाणां विपाकोदयेऽपि क्षयोपशमोऽविरुद्ध 20 इति स्थितम् । मोहनीयस्य तु मिथ्यात्वानन्तानुबन्ध्यादिप्रकृतीनां प्रदेशोदये क्षायोपशमिको भावोऽविरुद्धः, न विपाकोदये, तासां सर्वघातिनीत्वेन तद्रसस्पर्धकस्य तथाविधाध्यवसायेनापि देशघातितया परिणमयितुमशक्यत्वात् , रसस्य देशघातितया परिणामे तादात्म्येन देशघातिन्या हेतुत्वकल्पनात् । विपाकोदयविष्कम्भणं तु तासु सर्वघातिरसस्पर्धकानां क्षायोपशमिकसम्यक्त्वादिलब्ध्यभिधायकसिद्धान्तबलेन क्षयोपश- 15 मान्यथानुपपत्त्यैव तथाविधाध्यवसायेन कल्पनीयम् । केवलज्ञानकेवलदर्शनावरणयोस्तु विपाकोदयविष्कम्भायोग्यत्वे स्वभाव एव शरणमिति प्राञ्चः । हेत्वभावादेव तदभावस्तद्धेतुत्वेन कल्प्यमानेऽध्यवसाये तत्क्षयहेतुत्वकल्पनाया एवौचित्यादिति तु युक्तम् । तस्मात् मिथ्यात्वादिप्रकृतीनां विपाकोदये न क्षयोपशमसम्भवः किं तु प्रदेशोदये ।
१२. न च 'सर्वघातिरसस्पर्धकप्रदेशा अपि सर्वखघात्यगुणघातनस्वभावा इति 30 तत्प्रदेशोदयेऽपि कथं क्षायोपशमिकभावसम्भवः' ? इति वाच्यम्; तेषां सर्वघातिरसस्पर्धकप्रदेशानां अध्यवसायविशेषेण मनाग्मन्दानुभावीकृतविरलवेद्यमानदेशघातिरसस्पर्धकेऽन्तःप्रवेशितानां यथास्थितस्वबलप्रकटनासमर्थत्वात् ।
१ सर्वदैव त। २ °पद्यते नान्यथा त। ३ °वस्थालाभ इति त। ४ स्पर्धकेष्वन्त° मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org