________________
ज्ञानबिन्दुप्रकरणम् । करसबन्धयोग्या परमप्रकर्षप्राप्ता शुद्धिः अनिवृत्तिवादराद्धायाः संख्येयेभ्यो भागेभ्यः परतो जायते , तदा बन्धमेव न ता आयान्तीति । न च 'यथा श्रेण्यारोहे अनिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेषु परतोऽतिविशुद्धत्वात् मतिज्ञानावरणादीनां एकस्थानकरसबन्धः, तथा क्षपकश्रेण्यारोहे सूक्ष्मसम्परायस्य चरमद्विचरमादिसमयेषु वर्त5 मानस्य अतीवविशुद्धत्वात् केवलद्विकस्य सम्भवगन्धस्य एकस्थानकरसबन्धः कथं न भवति' इति शङ्कनीयम्; स्वल्पस्यापि केवलद्विकरसस्य सर्वघातित्वात् । सर्वघातिनां च जघन्यपदेऽपि द्विस्थानकरसस्यैव सम्भवात् । शुभानामपि प्रकृतीनां अत्यन्तशुद्धौ वर्तमानश्चतुःस्थानकमेव रसं बध्नाति । ततो मन्दमन्दतरविशुद्धौ तु त्रिस्थानकं द्विस्थानकं वा । संक्लेशाद्धायां वर्तमानस्तु शुभप्रकृतीरेव न बनातीति कुतः तद्गतरसस्थानकचिन्ता । " यास्तु अतिसंक्लिष्टे मिथ्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतैजसाद्याः शुभप्रकृतयो बन्धमायान्ति, तासामपि तथा स्वाभाव्यात् जघन्यतोऽपि द्विस्थानक एव रसो बन्धमायाति नैकस्थानक इति ध्येयम् । ननु उत्कृष्टस्थितिमात्रं संक्लेशोत्कर्षेण भवति, ततो यैरेव' अध्यवसायैः शुभप्रकृतीनां उत्कृष्टा स्थितिर्भवति तैरेव एकस्थानकोऽपि रसः किं न स्यादिति चेत् । उच्यते-इह हि प्रथमस्थितेरारभ्य समयवृद्ध्या असंख्येयाः स्थितिविशेषा 15 भवन्ति । एकैकस्यां च स्थिती असंख्येया रसस्पर्धकसंघातविशेषाः । तत उत्कृष्टस्थितौ बध्यमानायां प्रतिस्थितिविशेष असंख्येया ये रसस्पर्धकसंघातविशेषास्ते तावन्तो द्विस्थानकरसस्यैव घटन्ते, न एकस्थानकस्येति न शुभप्रकृतीनां उत्कृष्टस्थितिबन्धेऽपि एकस्थानकरसबन्धः । उक्तं च
"उक्कोसठिई अज्झवसाणेहिं एकठाणिओ होइ । 20 सुभिआण तं न जं ठिइअसंखगुणिआ उ अणुभागा ॥" [पंच० द्वा० ३ गा० ५४ ] इति ।
६९. एवं स्थिते देशघातिनां अवधिज्ञानावरणादीनां सर्वघातिरसस्पर्धकेषु विशुद्धाध्यवसायतो देशघातितया परिणमनेन निहतेषु, देशघातिरसस्पर्धकेषु च अतिस्निग्धेषु अल्परसीकृतेषु, तदन्तर्गतकतिपयरसस्पर्धकभागस्य उदयावलिकाप्रविष्टस्य क्षये, शेषस्य च विपाकोदयविष्कम्भलक्षणे उपशमे, जीवस्य अवधिमनःपर्यायज्ञानचक्षुर्दर्शनादयो 25 गुणाः क्षायोपशमिकाः प्रादुर्भवन्ति । तदुक्तम् -
"णिहएसु सवघाइरसेसु फड्डेसु देसघाईणं ।
जीवस्स गुणा जायंति ओहीमणचक्खुमाईआ ॥" [पंच० द्वा० ३ गा० ३०] निहतेषु देशघातितया परिणमितेषु । तदा अवधिज्ञानावरणादीनां कतिपयदेशघातिरसस्पर्धकक्षयोपशमात् कतिपयदेशघातिरसस्पर्धकानां चोदयात् क्षयोपशमानुविद्ध औद30 यिको भावः प्रवर्तते । अत एव उदीयमानांशक्षयोपशमवृद्ध्या वर्धमानावधिज्ञानोपपत्तिः । यदा च अवधिज्ञानावरणादीनां सर्वघातीनि रसस्पर्धकानि विपाकोदयमागतानि भवन्ति, तदा तद्विषय औदयिको भावः केवलः प्रवर्तते । केवलं अवधिज्ञानावरणीयसर्वघातिरसस्पर्धकानां देशघातितया परिणामः कदाचिद् विशिष्टगुणप्रतिपत्त्या कदा१ इति । ननु त। २ यैरध्यव॰ मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org