________________
१. सामान्यचर्चया ज्ञानस्य पीठिकाबन्धः ।
ब्रह्मणि अवच्छेदासम्भवात् न किञ्चिदेतत् । अवच्छेदानियमेन हेतुत्वे च अहङ्कारादेरपि ईश्वरे उत्पत्तिप्रसङ्गादिति किमतिप्रसङ्गेन ? । तस्मात् अनेकान्तवादाश्रयादेव' केवलज्ञानावरणेन आवृतोऽपि अनन्ततमभागावशिष्टोऽनावृत एव ज्ञानस्वभावः सामान्यत एकोऽपि 'अनन्तपर्याय किमरितमूर्तिः मन्दप्रकाशनामधेयो नानुपपन्नः । मन्दप्रकाशस्य क्षयोपशमभेदेन नानात्वसमर्थनम्
६७. स च अपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, घनपटलाच्छन्नरवेः मन्दप्रकाश इव अन्तरालस्थकटकुट्याद्यावरणविवरप्रवेशात् । इत्थं च - जन्मादिपर्यायवत् आत्मस्वभावत्वेऽपि मतिज्ञानादिरूपमन्दप्रकाशस्य उपाधिभेदसम्पादितसत्ताकत्वेन उपाधिविगमे तद्विगमसम्भवात् न कैवल्यस्वभावानुपपत्तिः - इति महाभाष्यकारः । अत एव द्वितीयापूर्वकरणे तात्त्विकधर्मसन्यासलाभे क्षायोपशमिकाः क्षमादिधर्मा अपि अपगच्छन्तीति तत्र तत्र हरिभद्राचार्यैः निरूपितम् । निरूपितं च योगयत्नकर्मनिर्जरणहेतुफलसम्बन्धनियतसत्ताकस्य क्षायिकस्यापि चारित्रधर्मस्य मुक्तावनवस्थानम् । न च वक्तव्यम्- 'केवलज्ञानावरणेन बलीयसा आवरीतुमशक्यस्य अनन्ततमभागस्य दुर्बलेन मतिज्ञानावरणादिना न आवरणसम्भवः' इति; कर्मणः स्वावार्याssवारकतायां सर्वघातिरसस्पर्धकोदयस्यैव बलत्वात् तस्य च मतिज्ञानावरणादिप्रकृतिष्वपि । अविशिष्टत्वात् ।
15
३
प्रासङ्गिकी क्षयोपशमप्रक्रिया -
१८. कथं तर्हि क्षयोपशम इति चेत् । अत्रेयं अर्हन्मतोपनिषद्वेदिनां प्रक्रिया - इह हि कर्मणां प्रत्येकं अनन्तानन्तानि रसस्पर्धकानि भवन्ति । तत्र केवलज्ञानावरणकेवलदर्शनावरणाऽऽद्यद्वादशकषायमिथ्यात्वनिद्रालक्षणानां विंशतेः प्रकृतीनां सर्वघातिनीनां सर्वायपि रसस्पर्धकानि सर्वघातीन्येव भवन्ति । उक्तशेषाणां पञ्चविंशतिघातिप्रकृतीनां देशघातिनीनां रसस्पर्धकानि यानि चतुःस्थानकानि यानि च त्रिस्थानकानि तानि सर्वघाती - न्येव । द्विस्थानकानि तु कानिचित् सर्वघातीनि कानिचिच्च देशघातीनि । एकस्थानकान सर्वाण्यपि देशघातीन्येव । तत्र ज्ञानावरणचतुष्कदर्शनावरणत्रयसंज्वलनचतुष्कान्तरायपञ्चकपुंवेदलक्षणानां सप्तदशप्रकृतीनां एकद्वित्रिचतुः स्थानकरसा बन्धमधिकृत्य' प्राप्यन्ते, श्रेणिप्रतिपत्तेरर्वागासां द्विस्थानकस्य त्रिस्थानकस्य चतुःस्थानकस्य वा रसस्य बन्धात्, श्रेणिप्रतिपत्तौ तु अनिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेषु अत्यन्तविशुद्धाध्यवसायेन अशुभत्वात् आसां एकस्थानकस्यैव रसस्य बन्धात् । शेषास्तु शुभा अशुभा वा बन्धमधिकृत्य द्विस्थानकरसास्त्रिस्थानकरसाश्चतुः स्थानकरसाच प्राप्यन्ते, न कदाचनापि एकस्थानकरसाः । यत उक्तसप्तदशव्यतिरिक्तानां हास्याद्यानां अशुभप्रकृतीनां एक- 30 स्थानकरसबन्धयोग्या शुद्धिः अपूर्वकरणप्रमत्ताप्रमत्तानां भवत्येव न । यदा तु एकस्थान -
१ वादाश्रयणेन केवल त । २ पर्यायकर्मि, पर्यायां कि अव । ३ ° भाष्यकाराशयः त । ४ चारित्रभावस्य मुक्ता' त । ५बन्धमाश्रित्य मु । ६ स्थानकस्यैव बन्धात् मु ।
Jain Education International
For Private & Personal Use Only
10
20
25
www.jainelibrary.org