________________
ज्ञानबिन्दुप्रकरणम् । इत्येवं दृष्टान्तितं पारमर्षे । अत्यावृतेऽपि चन्द्रसूर्यादौ दिनरजनीविभागहेत्वल्पप्रकाशवत् जीवेऽपि अन्यव्यावत्तेकचैतन्यमात्राविर्भाव आवश्यक इति परमार्थः । एकत्र कथं आवृतानावृतत्वमिति तु' अर्पितद्रव्यपर्यायात्मना भेदाभेदवादेन निर्लोठनीयम् ।
चैतन्यस्य आवृतानावृतत्वे विवरणाचार्यमतस्य निरासः। ५. ये तु 'चिन्मात्राश्रय-विषयमज्ञानम्' इति विवरणाचार्यमताश्रयिणो वेदान्तिनस्तेषां एकान्तवादिनां महत्यनुपपत्तिरेव, अज्ञानाश्रयत्वेन अनावृतं चैतन्यं यत् तदेव तद्विषयतयाऽऽवृतमिति विरोधात् । न च 'अखण्डत्वादि अज्ञानविषयः, चैतन्यं तु आश्रयः' इत्यविरोधः; अखण्डत्वादेः चिद्रूपत्वे भासमानस आवृतत्वायोगात् , अचिद्रूपत्वे च जडे
आवरणायोगात् । कल्पितभेदेन अखण्डत्वादि विषय इति चेत् ; न, भिन्नावरणे चैतन्या10 नावरणात् । परमार्थतो नास्त्येव आवरणं चैतन्ये, कल्पितं तु शुक्तौ रजतमिव तत् तत्र
अविरुद्धम् । तेनैव च चित्त्वाखण्डत्वादिभेदकल्पना- 'चैतन्यं स्फुरति न अखण्डत्वादि' - इत्येवंरूपाऽऽधीयमाना न विरुद्धति चेत् ; न, कल्पितेन रजतेन रजतकार्यवत् कल्पितेनावरणेन आवरणकार्यायोगात् । 'अहं मां न जानामि' इत्यनुभव एव कर्मत्वांशे आवरणविषयकः कल्पितस्यापि तस्य कार्यकारित्वमाचष्टे, अज्ञानरूपक्रियाजन्यस्य अतिशयस्य 15 आवरणरूपस्यैव प्रकृते कर्मत्वात्मकत्वात् । अत एव अस्य साक्षिप्रत्यक्षत्वेन स्वगोचरप्रमाणापेक्षया न निवृत्तिप्रसङ्ग इति चेत् ; न, 'मां न जानामि' इत्यस्य विशेषज्ञानाभावविषयत्वात् , अन्यथा 'मां जानामि' इत्यनेन विरोधात् । दृष्टश्च इत्थम् 'न किमपि जानामि' इत्यादिः मध्यस्थानां प्रयोगः । किञ्च, विशिष्टाविशिष्टयोः भेदाभेदाभ्युपगमं विना अखण्डत्वादिविशिष्टचैतन्यज्ञानेन विशिष्टावरणनिवृत्तावपि शुद्धचैतन्याप्रकाशप्रसङ्गः, 20 विशिष्टस्य कल्पितत्वात् , अविशिष्टस्य च अननुभवात् । महावाक्यस्य निर्धर्मकब्रह्मविषयत्वं
च अग्रे निर्लोठयिष्यामः। अज्ञानस्य जीवाश्रयत्वं ब्रह्मविषयत्वं चेति वाचस्पतिमतस्य निरास:
६६. एतेन 'जीवाश्रयं ब्रह्मविषयं च अज्ञानम्' इति वाचस्पतिमिश्राभ्युपगमोऽपि निरस्तः, जीवब्रह्मणोरपि कल्पितभेदत्वात् । व्यावहारिकभेदेऽपि जीवनिष्ठाऽविद्यया तत्रैव 25 प्रपश्चोत्पत्तिप्रसङ्गात् । न च 'अहङ्कारादिप्रपञ्चोत्पत्तिः तत्र इष्टैव, आकाशादिप्रपञ्चोत्पत्तिस्तु विषयपक्षपातिन्या अविद्याया ईश्वरे सत्त्वेन तत्रैव युक्ता' इत्यपि साम्प्रतम् । अज्ञातब्रह्मण एव एतन्मते ईश्वरत्वेऽपि अज्ञातशुक्ते रजतोपादानत्ववत् तस्य आकाशादिनपञ्चोपादानत्वाभिधानासम्भवात् । रजतस्थले हि 'इदमंशावच्छेदेन रजताज्ञानमिदमंशावच्छेदेन रजतोत्पादकम्' इति त्वया क्लृप्तम्, शुक्त्यज्ञानं तु अदूरविप्रकर्षण तथा । प्रकृते तु
१तु द्रव्य त। २०धीय आरोग्यमाना अ। ३ कल्पितेनानावरणेन म। ४ पेक्षया नाऽऽवृत्तिप्र त। ५ विशेष्यज्ञा' ब । ६ शिष्टकल्पित° अब। ७°निर्धर्मकविष° अब मु। ८°ईश्वरेऽस मु। ९ रजतज्ञानं अब मु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org