SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ न्यायविशारद-न्यायाचार्यश्रीमद्यशोविजयोपाध्यायविरचितं ज्ञानबिन्दुप्रकरणम्। ऐन्द्रस्तोमनतं नत्वा वीरं तत्त्वार्थदेशिनम् । ज्ञानबिन्दुः श्रुताम्भोधेः सम्यगुद्धियते मया ॥ १॥ [१. सामान्यचर्चया ज्ञानस्य पीठिकाबन्धः।] केवलाख्यपूर्णप्रकाशनिरूपणम् - ६१. तत्र ज्ञानं तावदात्मनः स्वपरावभासकः असाधारणो गुणः । स च अभ्रपट- 5 लविनिर्मुक्तस्य भास्वत इव निरस्तसमस्तावरणस्य जीवस्य स्वभावभूतः केवलज्ञानव्यपदेशं लभते । तदाहुराचार्याः "केवलनाणमणंतं जीवसरूवं तयं निरावरणं ।" इति । मत्यादिचतुष्करूपमन्दप्रकाशनिरूपणम् - ६२. तं च स्वभावं यद्यपि सर्वघाति केवलज्ञानावरणं कारुर्येनैव आवरीतुं व्याप्रियते, 10 तथापि तस्य अनन्ततमो भागो नित्यानावृत एवावतिष्ठते, तथास्वाभाव्यात्- “सबजीवाणं पि य णं अक्खरस्स अनन्ततमो भागो णिचुग्याडिओ चिट्ठइ । सोवि अ जइ आवरिज्जा, तेणं जीवो अजीवत्तणं पाविज्जा ।" [ नन्दी० सू० ४२] इति पारमर्षप्रामाण्यात् । अयं च स्वभावः केवलज्ञानावरणावृतस्य जीवस्य घनपटलच्छन्नस्य रवेरिव मन्दप्रकाश इत्युच्यते। ६३. तत्र हेतुः केवलज्ञानावरणमेव । केवलज्ञानव्यावृत्तज्ञानत्वव्याप्यजातिविशेषावच्छिन्ने त तुत्वस्य शास्त्रार्थत्वात् । अत एव न मतिज्ञानावरणक्षयादिनापि मतिज्ञानाधुत्पादनप्रसङ्गः । अत एव चास्य विभावगुणत्वमिति प्रसिद्धिः। ६४. स्पष्टप्रकाशप्रतिबन्धके मन्दप्रकाशजनकत्वमनुत्कटे चक्षुराद्यावरणे वस्त्रादावेव दृष्टम् , न तु उत्कटे कुड्यादाविति कथमत्रैवमिति चेत्, न, अभ्राद्यावरणे उत्कटे 20 उभयस्य दशेनात् । अत एव अत्र "सुट्ठवि मेघसमुदए होंति पभा चंदसूराणं ।" [नन्दी० सू० ४२] 15 १ सव्वं जीवाणं अब। २०मेव तत्र केवल त। ३ विभावस्वभावलमिति शास्त्रे प्रत। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002518
Book TitleGyanbindu Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi
PublisherZZZ Unknown
Publication Year1942
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy