Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 191
________________ ૧૭૪ ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૨ विरतिक्रियाकरणं शास्त्रे निषिद्धम्, किन्तु पारमार्थिकाध्यवसायरूपो विरतिपरिणामः स हि असनपि विशुद्धव्रतग्रहणादिक्रियाकारिणां तन्माहात्म्यादेव तद्ग्रहणानन्तरं जायते, सँश्च परिवर्द्धते, नतु प्रतिपातशीलो भवति । अत एव क्षायोपशमिकानि गुणस्थानानि नास्मदादिबाह्यौदयिकक्रियाकृष्टान्यायान्तीतिबुद्ध्या सम्यग् क्रियायां नोदासितव्यम्, प्रयत्नेन तेषामपि सुलभत्वाद्, उपायाधीनत्वादुपेयस्य च न चैतत् स्वमनीषिकाविजृम्भितम्, यदाहुः श्रीहरिभद्रसूरिवराः पञ्चाशकप्रकरणे सम्यक्त्वव्रतपरिणामस्थैर्यार्थं विधेयगतोपदेशप्रस्तावे - "गहणादुवरि पयत्ता, होइ असन्तोऽवि विरइपरिणामो । अकुसलकम्मोदयओ, पडइ अवण्णाइं लिंगमिह ।।१।। तम्हा णिच्चसईए, बहुमाणेणं च अहिगयगुणम्मी । पडिवक्खदुगंछाए, परिणइआलोअणेणं च ।।२।। तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए अ । उत्तरगुणसद्धाए, एत्थ सया होइ जइअव्वं ।।३।। एवमसंतोवि इमो, जायइ जाओवि पडइ न कयावि । ता इत्थं बुद्धिमया, अपमाओ होइ कायव्वो ।।४।।" [१/३५-८] आसां व्याख्या-“ग्रहणाद्="गुरुमूले श्रुतधर्मे"त्यादिविधिना सम्यक्त्वव्रतोपादानादुपरि उत्तरकाले प्रयत्नादुद्यमविशेषाद्धेतोर्भवति जायते, असन्नपि कर्मदोषादविद्यमानोऽपि, संस्तु भूत एवेत्यपिशब्दार्थः कोऽसावित्याह"विरतिपरिणामः" प्राणातिपातादिनिवर्त्तने पारमार्थिकाध्यवसायः, उपलक्षणत्वात् सम्यक्त्वपरिग्रहणम्, सोपक्रमत्वाद्विरत्याद्यावारककर्मणाम्, तथाविधप्रयत्नस्य च तदुपक्रमणस्वभावत्वादिति । अथोक्तविपर्ययमाहअकुशलकर्मोदयतोऽशुभकर्मोपायादिकर्मानुभावात्पतति सन्नपि व्रतग्रहणस्योपरि प्रयत्नं विना अपयाति विरतिपरिणाम इति प्रकृतम् । तत्प्रतिपातश्च लिङ्गेनावसीयते तदेवाह-अवर्णो व्रतानां व्रतदेशकानां व्रतवतां वा अश्लाघा अवज्ञा वा अनादर आदिर्यस्य तदवर्णादि अवज्ञादि वा आदिशब्दात्तद्रक्षणोपायाऽप्रवृत्त्यादि च लिङ्गं लक्षणमिह व्रतपरिणामपरिपात इति । न च वाच्यं-"विरतिपरिणामाभावे कथं व्रतग्रहणम् ? इति, उपरोधादिना तस्य सम्भवात् श्रूयन्ते ह्यनन्तानि द्रव्यतः श्रमणत्वश्रावकत्वोपादानानीति प्रथमगाथार्थः । प्रस्तावितोपदेशमेवाह-"तम्हा"गाहा “तित्थंकर"गाहा । यस्मादसन्नपि विरतिपरिणामः प्रयत्नाज्जायते, प्रयत्न विना चाऽकुशलकर्मोदयात् सन्नपि प्रतिपतति, तस्मात्कारणात् नित्यस्मृत्या सार्वदिकस्मरणेन भवति सम्बन्धः

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300