________________
૨૨૦
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૪ શ્રાવકના ભેદ બતાવ્યા પછી દુવિધ-ત્રિવિધ આદિને આશ્રયીને આઠ પ્રકારના શ્રાવકો છે. જેમ દુવિધત્રિવિધ આદિને આશ્રયીને ૫ અણુવ્રતવાળા ૬ પ્રકારના શ્રાવકો પ્રાપ્ત થયા, એક ઉત્તરગુણવાળો ૭મો શ્રાવક પ્રાપ્ત થયો અને એક અવિરત સમ્યફદષ્ટિ ૮મો શ્રાવક પ્રાપ્ત થયો. એમ કુલ શ્રાવકના ૮ ભેદ પ્રાપ્ત થાય છે. વળી પાંચ અણુવ્રતમાંથી એક-એક અણુવ્રતને આશ્રયીને છ પ્રકારના શ્રાવકને જુદા કરવાથી ૫ અણુવ્રતોને આશ્રયીને ૩૦ પ્રકારના શ્રાવકો પ્રાપ્ત થાય છે. ઉત્તરગુણવાળો એક શ્રાવક અને અવિરત સમ્યગ્દષ્ટિરૂપ એક શ્રાવક એમ કુલ બત્રીસ શ્રાવકના ભેદો પ્રાપ્ત થાય છે. टी :
कथं पुनः षड्भङ्गाः सप्तभिर्गुण्यन्ते? इत्याह-पदवृद्ध्या मृषावादाचेकैकव्रतवृद्ध्या, एकव्रतभङ्गराशेरवधौ व्यवस्थापितत्वाद्विवक्षितव्रतेभ्य एकेन हीना वारा इत्यर्थः । तथाहि-एकव्रते षड्भङ्गा सप्तभिर्गुणिता जाता द्विचत्वारिंशत्तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशद्, एषाऽपि सप्तभिर्गुण्यते, षट् च क्षिप्यन्ते जातं ३४२-। एवं सप्तगुणनषट्प्रक्षेपक्रमेण तावत्कार्यं यावदेकादश्यां वेलायामागतम् १३८४१२८७२०० । एते च षट्अष्टचत्वारिंशदादयो द्वादशाप्यागतराशय उपर्यधोभागेन व्यवस्थाप्यमाना अर्द्धदेवकुलिकाकारां भूमिमावृण्वन्तीति खण्डदेवकुलिकेत्युच्यते । स्थापना (१) ।
संपूर्णदेवकुलिकास्तु प्रतिव्रतमेकैकदेवकुलिकासद्भावेन षड्भङ्ग्यां द्वादश देवकुलिकाः सम्भवन्ति । तत्र द्वादश्यां देवकुलिकायामेकद्विकादिसंयोगा गुणक(ण्य)रूपाश्चैवं ६-३६-२१६-१२९६-७७७६-. ४६६५६-२७९९३६-१६७९६१६-१००७७६९६-६०४६६१७६-३६२७९७०५६-२१७६७८२३३६ ।
तत्र च गुणकराशयस्त्वमी १२-६६-२२०-४९५-७९२-९२४-७९२-४९५-२२०-६६-१२-१ । एतेषां च पूर्वस्य षड्गुणनेऽग्रेतनो गुण्यराशिरायातीत्यानयने बीजम्, एते च षट्षट्त्रिंशदादयो द्वादशापि गुण्यराशयः क्रमशो द्वादश-षट्षष्टिप्रभृतिभिर्गुणकराशिभिर्गुणिता आगतराशयः ७२आदयो भवन्ति । ते देवकुलिकागततृतीयराशितो ज्ञेयाः । स्थापना चाग्रे (२)।
अत्राप्युत्तरगुणाऽविरतसंयुक्ताः १३८४१२८७२०२ भवन्ति । उत्तरगुणाश्चात्र प्रतिमादयोंऽभिग्रहविशेषा ज्ञेयाः । यदुक्तम् - “तेरसकोडिसयाई, चुलसीइजुआई बारस य लक्खा । सत्तासीअ सहस्सा, दो अ सया तह दुरग्गा य ।।१।।" [श्रावकव्रतभंग प्र.४०] 'दुरग्गत्ति' प्रतिमाधुत्तरगुणाऽविरतरूपभेदद्वयाधिकाः, एतावन्तश्च द्वादश व्रतान्याश्रित्य प्रोक्ताः, पञ्चाणुव्रतान्याश्रित्य तु १६८०६ भवन्ति, तत्राप्युत्तरगुणाऽविरतमीलने १६८०८ भवन्ति । अत्र चैकद्विकादिसंयोगा गुणकाः, षट्षट्त्रिंशदादयो गुण्याः, त्रिंशदादयश्चागतराशयो यन्त्रकादवसेयाः ।