Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 239
________________ ૨૨ ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૪ पढमिक्को तिन्नि तिआ, दुन्नि नवा तिन्नि दो नवा चेव । कालतिगेण य सहिया, सीआलं होइ भंगसयं ।।२।। सीआलं भंगसयं, पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे, कुसलो सेसा अकुसला उ ।।३।।" [श्रावकव्रतभङ्ग प्र. ५, ६, ८] त्ति, त्रिकालविषयता चातीतस्य निन्दया, साम्प्रतिकस्य संवरणेन अनागतस्य प्रत्याख्यानेनेति, यदाह“अईयं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि" [पाक्षिकसूत्रे] त्ति एते च भङ्गा अहिंसामाश्रित्य प्रदर्शिता व्रतान्तरेष्वपि ज्ञेयाः । तत्र पञ्चाणुव्रतेषु प्रत्येकं १४७ भङ्गकभावात् ७३५ भेदाः श्रावकाणां भवन्ति । उक्तं च"दुविहा अट्ठविहा वा, बत्तीसविहा व सत्तपणतीसा । सोलस य सहस्स भवे, अट्ठसयदुत्तरा वइणो ।।१।।" [श्रावकव्रतभङ्ग प्र. २] त्ति । इदं तु ज्ञेयं-षड्भगीवदुत्तरभङ्गरूपैकविंशतिभङ्ग्या २, तथा नवभङ्ग्या ३, तथैकोनपञ्चाशद्भङ्ग्या ४, तथा सप्तचत्वारिंशत्(दधिकशत)भङ्ग्या ५, द्वादश द्वादश देवकुलिका निष्पद्यन्ते । यदुक्तम् - "इगवीसं खलु भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते । ते च्चिअ बावीसगुणा, इगवीसं पक्खिवेअव्वा ।।१।। एगवए नव भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते । ते च्चिअ दसगुण काउं, नव पक्खेवंमि कायव्वा ।।२।। इगुवन्नं खलु भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते । ते च्चिअ पंचासगुणा, इगुणवन्नं पक्खिवेअव्वा ।।३।। सीआलं भङ्गसयं, ते च्चिअ अडयालसयगुणं काउं । सीयालसएण जुअं, सव्वग्गं जाण भङ्गाणं ।।४।।" [श्रावकव्रतभङ्ग प्र. ११-१३] एकादश्यां वेलायां द्वादशव्रतभङ्गकसर्वसंख्यायामागतं क्रमेण खण्डदेवकुलिकातो ज्ञेयम् । तत्स्थापनाश्चेमाः (३) । एवं संपूर्णदेवकुलिका अपि एकविंशत्यादिभङ्ग्यादिषु द्वादश द्वादश भावनीयाः । स्थापनाः क्रमेण यथा (४-५-६-७) इति प्रसङ्गतः प्रदर्शिता भङ्गप्ररूपणा बाहुल्येन च द्विविधत्रिविधादिषड्भङ्ग्येवोपयोगिनीत्युक्तमेवावसेयमित्यलं विस्तरेण ॥२४॥

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300