________________
૨૨
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૪
पढमिक्को तिन्नि तिआ, दुन्नि नवा तिन्नि दो नवा चेव । कालतिगेण य सहिया, सीआलं होइ भंगसयं ।।२।। सीआलं भंगसयं, पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे, कुसलो सेसा अकुसला उ ।।३।।" [श्रावकव्रतभङ्ग प्र. ५, ६, ८] त्ति, त्रिकालविषयता चातीतस्य निन्दया, साम्प्रतिकस्य संवरणेन अनागतस्य प्रत्याख्यानेनेति, यदाह“अईयं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि" [पाक्षिकसूत्रे] त्ति एते च भङ्गा अहिंसामाश्रित्य प्रदर्शिता व्रतान्तरेष्वपि ज्ञेयाः । तत्र पञ्चाणुव्रतेषु प्रत्येकं १४७ भङ्गकभावात् ७३५ भेदाः श्रावकाणां भवन्ति । उक्तं च"दुविहा अट्ठविहा वा, बत्तीसविहा व सत्तपणतीसा । सोलस य सहस्स भवे, अट्ठसयदुत्तरा वइणो ।।१।।" [श्रावकव्रतभङ्ग प्र. २] त्ति ।
इदं तु ज्ञेयं-षड्भगीवदुत्तरभङ्गरूपैकविंशतिभङ्ग्या २, तथा नवभङ्ग्या ३, तथैकोनपञ्चाशद्भङ्ग्या ४, तथा सप्तचत्वारिंशत्(दधिकशत)भङ्ग्या ५, द्वादश द्वादश देवकुलिका निष्पद्यन्ते । यदुक्तम् -
"इगवीसं खलु भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते । ते च्चिअ बावीसगुणा, इगवीसं पक्खिवेअव्वा ।।१।। एगवए नव भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते । ते च्चिअ दसगुण काउं, नव पक्खेवंमि कायव्वा ।।२।। इगुवन्नं खलु भङ्गा, निद्दिट्ठा सावयाण जे सुत्ते । ते च्चिअ पंचासगुणा, इगुणवन्नं पक्खिवेअव्वा ।।३।। सीआलं भङ्गसयं, ते च्चिअ अडयालसयगुणं काउं । सीयालसएण जुअं, सव्वग्गं जाण भङ्गाणं ।।४।।" [श्रावकव्रतभङ्ग प्र. ११-१३]
एकादश्यां वेलायां द्वादशव्रतभङ्गकसर्वसंख्यायामागतं क्रमेण खण्डदेवकुलिकातो ज्ञेयम् । तत्स्थापनाश्चेमाः (३) । एवं संपूर्णदेवकुलिका अपि एकविंशत्यादिभङ्ग्यादिषु द्वादश द्वादश भावनीयाः । स्थापनाः क्रमेण यथा (४-५-६-७) इति प्रसङ्गतः प्रदर्शिता भङ्गप्ररूपणा बाहुल्येन च द्विविधत्रिविधादिषड्भङ्ग्येवोपयोगिनीत्युक्तमेवावसेयमित्यलं विस्तरेण ॥२४॥