Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 256
________________ ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૫ ૨૩૯ मांसाद्यर्थममुं जन्तुं हन्मीति संकल्पपूर्वकं 'च' पुनः 'अनपेक्षया' अपेक्षामन्तरा या हिंसा प्राणव्यपरोपणं तस्या या 'विरतिः' निवृत्तिः सा 'आदिम, प्रथमम् 'अणुव्रतं' 'स्याद्' भवेत् । 'निराग' इति पदेन निरपराधजन्तुविषयां हिंसां प्रत्याख्याति, सापराधस्य तु न नियम इति व्यज्यते, द्वीन्द्रियादिग्रहणेन त्वेकेन्द्रियविषयां हिंसां नियमितुं न क्षम इत्याचष्टे, 'संकल्पादि'त्यनेन चानुबन्धहिंसा वा, आरम्भजा तु हिंसाऽशक्यप्रत्याख्यानेति तत्र यतनां कुर्यादिति ज्ञेयम् । यतः सूत्रम् - "थूलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पण्णत्ते, तंजहा-संकप्पओ आरम्भओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, णो आरम्भ ओ" त्ति । [प्रत्याख्यानावश्यक सू. १, हारिभद्रीवृत्तौ प. ८१८] । अत्र च यद्यपि आरम्भजहिंसाऽप्रत्याख्याता, तथापि श्रावकेण त्रसादिरहितं सखारकसत्यापनादिविधिना निश्छिद्रदृढवस्त्रगालितं जलमिन्धनानि च शुष्कान्यजीर्णान्यशुषिराण्यकीटजग्धानि धान्यपक्वान्नसुखाशिकाशाकस्वादिमपत्रपुष्पफलादीन्यप्यसंसक्तान्यगर्भितानि सर्वाण्यपि च जलादीनि 'परिमितानि सम्यक् शोधितान्येव च व्यापार्याणि, अन्यथा निर्दयत्वादिना शमसंवेगादिलक्षणसम्यक्त्वलक्षणपञ्चकान्तर्गताया अनुकम्पाया व्यभिचारापत्तेः । तदुच्यते - "परिसुद्धजलग्गहणं, दारुअधन्नाइआण य तहेव । गहिआण य परिभोगो, विहीइ तसरक्खणट्ठाए ।।१।।" [प्रत्याख्यानावश्यक चूर्णि भा. २ प. २८४] त्ति । विवेकः कार्यः । एवं चात्र विशेषणत्रयेण श्रावकस्य सपादविशोपकप्रमितजीवदयात्मकं प्रायः प्रथममणुव्रतमिति सूचितम्, यत् उक्तम् - "जीवा थूला सुहुमा, संकप्पारम्भओ भवे दुविहा । सवराह निरवराहा, साविक्खा चेव निरविक्खा ।।१।।" [सम्बोध प्र. श्रा. व्रता. २] अस्या व्याख्या-प्राणिवधो द्विविधः, स्थूलसूक्ष्मजीवविषयभेदात्, तत्र-स्थूला द्वीन्द्रियादयः, सूक्ष्माश्चात्रैकेन्द्रियाः पृथिव्यादयः पञ्चापि बादराः, न तु सूक्ष्मनामकर्मोदयवर्तिनः सर्वलोकव्यापिनः, तेषां वधाभावात्, स्वयमायुः क्षयेणैव मरणात् । अत्र च साधूनां द्विविधादपि वधानिवृत्तत्वाविंशतिविशोपका जीवदया, गृहस्थानां तु स्थूलप्राणिवधानिवृत्तिर्न तु सूक्ष्मवधात्, पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वाद्, इति दशविशोपकरूपमर्द्धं गतम्, स्थूलप्राणिवधोऽपि द्विधा, सङ्कल्पज आरम्भजश्च तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपाद्यो जायते तस्माद्गृही निवृत्तो, न त्वारम्भजात्, कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवाद्, अन्यथा च शरीरकुटुम्बनिर्वाहाद्यभावात्, एवं पुनरर्द्धं गतं जाताः पञ्च विशोपकाः, सङ्कल्पजोऽपि द्विधा, सापराधविषयो निरपराधविषयश्च तत्र निरपराधविषया

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300