________________
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૫
૨૩૯ मांसाद्यर्थममुं जन्तुं हन्मीति संकल्पपूर्वकं 'च' पुनः 'अनपेक्षया' अपेक्षामन्तरा या हिंसा प्राणव्यपरोपणं तस्या या 'विरतिः' निवृत्तिः सा 'आदिम, प्रथमम् 'अणुव्रतं' 'स्याद्' भवेत् । 'निराग' इति पदेन निरपराधजन्तुविषयां हिंसां प्रत्याख्याति, सापराधस्य तु न नियम इति व्यज्यते, द्वीन्द्रियादिग्रहणेन त्वेकेन्द्रियविषयां हिंसां नियमितुं न क्षम इत्याचष्टे, 'संकल्पादि'त्यनेन चानुबन्धहिंसा वा, आरम्भजा तु हिंसाऽशक्यप्रत्याख्यानेति तत्र यतनां कुर्यादिति ज्ञेयम् । यतः सूत्रम् -
"थूलगपाणाइवायं समणोवासओ पच्चक्खाइ, से पाणाइवाए दुविहे पण्णत्ते, तंजहा-संकप्पओ आरम्भओ अ, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, णो आरम्भ ओ" त्ति । [प्रत्याख्यानावश्यक सू. १, हारिभद्रीवृत्तौ प. ८१८] ।
अत्र च यद्यपि आरम्भजहिंसाऽप्रत्याख्याता, तथापि श्रावकेण त्रसादिरहितं सखारकसत्यापनादिविधिना निश्छिद्रदृढवस्त्रगालितं जलमिन्धनानि च शुष्कान्यजीर्णान्यशुषिराण्यकीटजग्धानि धान्यपक्वान्नसुखाशिकाशाकस्वादिमपत्रपुष्पफलादीन्यप्यसंसक्तान्यगर्भितानि सर्वाण्यपि च जलादीनि 'परिमितानि सम्यक् शोधितान्येव च व्यापार्याणि, अन्यथा निर्दयत्वादिना शमसंवेगादिलक्षणसम्यक्त्वलक्षणपञ्चकान्तर्गताया अनुकम्पाया व्यभिचारापत्तेः । तदुच्यते - "परिसुद्धजलग्गहणं, दारुअधन्नाइआण य तहेव । गहिआण य परिभोगो, विहीइ तसरक्खणट्ठाए ।।१।।" [प्रत्याख्यानावश्यक चूर्णि भा. २ प. २८४] त्ति । विवेकः कार्यः । एवं चात्र विशेषणत्रयेण श्रावकस्य सपादविशोपकप्रमितजीवदयात्मकं प्रायः प्रथममणुव्रतमिति सूचितम्, यत् उक्तम् - "जीवा थूला सुहुमा, संकप्पारम्भओ भवे दुविहा । सवराह निरवराहा, साविक्खा चेव निरविक्खा ।।१।।" [सम्बोध प्र. श्रा. व्रता. २]
अस्या व्याख्या-प्राणिवधो द्विविधः, स्थूलसूक्ष्मजीवविषयभेदात्, तत्र-स्थूला द्वीन्द्रियादयः, सूक्ष्माश्चात्रैकेन्द्रियाः पृथिव्यादयः पञ्चापि बादराः, न तु सूक्ष्मनामकर्मोदयवर्तिनः सर्वलोकव्यापिनः, तेषां वधाभावात्, स्वयमायुः क्षयेणैव मरणात् । अत्र च साधूनां द्विविधादपि वधानिवृत्तत्वाविंशतिविशोपका जीवदया, गृहस्थानां तु स्थूलप्राणिवधानिवृत्तिर्न तु सूक्ष्मवधात्, पृथ्वीजलादिषु सततमारम्भप्रवृत्तत्वाद्, इति दशविशोपकरूपमर्द्धं गतम्, स्थूलप्राणिवधोऽपि द्विधा, सङ्कल्पज आरम्भजश्च तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्परूपाद्यो जायते तस्माद्गृही निवृत्तो, न त्वारम्भजात्, कृष्याद्यारम्भे द्वीन्द्रियादिव्यापादनसम्भवाद्, अन्यथा च शरीरकुटुम्बनिर्वाहाद्यभावात्, एवं पुनरर्द्धं गतं जाताः पञ्च विशोपकाः, सङ्कल्पजोऽपि द्विधा, सापराधविषयो निरपराधविषयश्च तत्र निरपराधविषया