Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 280
________________ ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૮ इयमत्र भावना - -मैथुनं द्विविधं, सूक्ष्मं स्थूलं च तत्र कामोदयेन यदिन्द्रियाणामीषद्विकारस्तत्सूक्ष्मम्, मनोवाक्कायैरौदारिकादिस्त्रीणां यः सम्भोगस्तत्स्थूलम् अथवा मैथुनविरतिरूपं ब्रह्मचर्यं द्विधा, सर्वतो देशतश्च तत्र सर्वथा सर्वस्त्रीणां मनोवाक्कायैः सङ्गत्यागः सर्वतो ब्रह्मचर्यम्, तच्चाष्टादशधा । यतो योगशास्त्रे २५३ “दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतम् ।।१।। " [१ / २३] इति । तदितरद्देशतः तत्रोपासकः सर्वतोऽशक्तौ देशतस्तत्स्वदारसंतोषरूपं परदारवर्जनरूपं वा प्रतिपद्यते । तथा च सूत्रम् - “परदारगमणं समणोवासओ पच्चक्खाइ, सदारसंतोसं वा पडिवज्जइ, से अ परदारगमणे दुविहे पण्णत्ते, ओरालिय़परदारगमणे वेउव्विअपरदारगमणे" [प्रत्याख्यानावश्यके सू० ४, हारिभद्रीवृत्तिः प. ८२३ ] त्ति । 7 तत्र च परदारगमनप्रत्याख्याता यास्वेव परदारशब्दः प्रवर्त्तते ताभ्य एव निवर्त्तते, नतु साधारणाङ्गनादिभ्यः, स्वदारसंतुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति विवेकः । इदानीं चैतद्व्रतप्रतिपत्तिर्वृद्धपरम्परया प्रायो न सामान्यतोऽन्यचतुरणुव्रतवत् द्विविधत्रिविधेन भङ्गेन दृश्यते, किन्तु विशेषतो मानुषमेकविधैकविधेन, तैरश्चमेकविधत्रिविधेन, दिव्यं च द्विविधत्रिविधेनेति । दारशब्दस्योपलक्षणत्वात्स्त्रियं प्रति स्वपतिव्यतिरिक्तसर्वपुरुषवर्जनमपि द्रष्टव्यम् (ग्रन्थाग्रम् २०००) एतद्व्रतं च महाफलाय यतः " जो देइ कणयकोडिं, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तं पुण्णं, जत्तिअ बंभव्वए धरिए || १ || " [ सम्बोधप्र. गुरु. ६९ ] “देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्करं जे करिंति तं ॥ २ ॥ | " [ उत्तराध्ययन १६ / १६ ] "आणाईसरिअं वा, इड्डी रज्जं च कामभोगा य । कित्ती बलं च सग्गो, आसन्ना सिद्धि बंभाओ || ३ || कलिकार ओवि जणमार ओवि सावज्जजोगनिर ओवि । जं नारओवि सिज्झइ, तं खलु सीलस्स माहप्पं || ४ ||" [ सम्बोधप्र. श्रा. ४२ - ३ ]

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300