Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 288
________________ ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૯ ૨૦૧ चतुष्पदकुप्यभेदात् सामान्येन षड्विधोऽपि तत्प्रभेदैश्चतुःषष्टिविधः प्रोक्तः, तथाहि - धान्यानि चतुर्विंशतिर्यथा - “धन्नाइँ चउव्वीसं, जव १ गोहुम २ सालि ३ वीहि ४ सट्ठी अ५ । कुद्दव ६ अणुआ ७ कंगू ८, रालग ९ तिल १० मुग्ग १९ मासा य १२ । । १ । । असि १३ हरिमंथ १४ तिउडय १५ निप्फाव १६ सिलिंद १७ रायमासा य १८ । इक्खू १९ मसूर २० तुवरी २१, कुलत्थ २२ तह धन्नय २३ कलाया २४ ।। २ ।। " [दशवैकालिकनिर्युक्तिः २५२-३, सम्बोधप्र. श्राद्ध. ५४-५, प्रवचनसारोद्वारे १००४ - ५ ] एतानि प्रायः प्रसिद्धानि, नवरं षष्टिका शालिभेदः ५, अणवो मिणचवाख्या धान्यभेदा इति हैमद्वयाश्रयवृत्तौ यद्वाऽणुका युगन्धरी इत्यपि क्वापि दृश्यते ७, अतसी प्रतीता १३, हरिमन्थाः कृष्णचनकाः १४, त्रिपुटको मालवकप्रसिद्धो धान्यविशेषः १५, निष्पावा वल्लाः १६, सिलिन्दा मुंकुष्टाः १७, राजमाषाश्चपलकाः १८, इखुर्वरट्टिका सम्भाव्यते १९, मसूरतुवरी धान्यद्वयं मालवकादौ प्रसिद्धम् २०-२१, कलापका वृत्तचनकाः २४ । रत्नानि चतुर्विंशतिर्यथा “रयणाइँ चडव्वीसं, सुवण्ण १ तउ २ तंब ३ रयय ४ लोहाई ५ । सीसग ६ हिरण ७ पासाण ८, वइर ९ मणि १० मोत्तिअ ११ पवाल १२ । । १ । । संखो १३ तिणिसा १४ गुरू १५ चंदणाणि १६ वत्था १७ मिलाणि १८ कट्ठाई १९ । तह चम्म २० दंत २१ वाला २२, गंधा २३ दव्वोसहाई २४ च ।। २ ।। " [ सम्बोधप्र. श्राद्ध. । ५७-८ ] प्रसिद्धान्यमूनि, नवरं रजतं रूप्यम्, हिरण्यं रूपकादि, पाषाणा विजातिरत्नानि, मणयो जात्यानि, तिनिसो वृक्षविशेषः, अमिलान्यूर्णावस्त्राणि, काष्ठानि श्रीपर्णादिफलकादीनि, चर्माणि सिंहादीनां, दन्ता गजादीनां वाला श्चमर्यादीनाम्, द्रव्यौषधानि पिप्पलादीनि । स्थावरं त्रिधा, द्विपदं च द्विधा, यथा "भूमी घरा य तरुगण, तिविहं पुण थावरं मुणेअव्वं । चक्कारबद्ध माणुस दुविहं पुण होइ दुपयं तु ।।१।।” [दशवै. नि. २५६, सम्बोधप्र. श्राद्ध. ५८] भूमिः क्षेत्रम् गृहाणि प्रासादाः, तरुगणा नालिकेर्याद्यारामा इति त्रिधा स्थावरम्, चक्रारबद्धं गन्त्र्यादि, मानुषं दासादीति द्विधा द्विपदम् । : चतुष्पदं दशधा यथा -

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300