Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 265
________________ ૨૪૮ ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | બ્લોક-૨૬ “कण्णागहणं दुपयाण, सूअगं चउपयाण गोवयणं । अपयाणं दव्वाणं, सव्वाणं भूमिवयणं तु ।।१।।" [सम्बोधप्र. श्रा. व्रता. १८] ननु यद्येवं तर्हि द्विपदचतुष्पदाऽपदग्रहणं सर्वसंग्राहकं कुतो न कृतम् ? सत्यम् कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन रूढत्वाद्विशेषेण वर्जनार्थमुपादानम्, कन्यालीकादौ च भोगान्तरायद्वेषवृद्ध्यादयो दोषाः स्फुटा एव, यत आवश्यकचूर्णी - __ "मुसावाए के दोसा? अकज्जन्ते वा के गुणा? तत्थ दोसा कण्णगं चेव अकण्णगं भणंतो भोगंतरायदोसा य, दुट्ठा वा आतघातं करेज्ज, कारवेज्जा वा, एवं सेसेसु भाणिअव्वा" [पच्चक्खाणावश्यकसूत्रे हारिभद्र्यां वृत्तौ प. ८२१] इत्यादि । तथा न्यस्यते रक्षणायान्यस्मै समर्प्यते इति न्यासः सुवर्णादिस्तस्य निह्नवोऽपलापस्तद्वचनं स्थूलमृषावादः, इदं चानेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तम्, अस्य चादत्तादाने(नत्वे) सत्यपि वचनस्यैव प्राधान्यविवक्षणान्मृषावादत्वम् ४ । कूटसाक्ष्यं लभ्यदेयविषये प्रमाणीकृतस्य लञ्चामत्सरादिना कूटं वदतः 'यथाऽहमत्र साक्षी'ति अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः ५ इति । अत्रायं भावार्थ:-मृषावादः क्रोधमानमायालोभत्रिविधरागद्वेषहास्यभयव्रीडाक्रीडारत्यरतिदाक्षिण्यमौखर्यविषादादिभिः संभवति, पीडाहेतुश्च सत्यवादोऽपि मृषावादः, सद्भ्यो हितं सत्यमिति व्युत्पत्त्या परपीडाकरमसत्यमेव यतः - “अलिअं न भासिअव्वं, अत्थि हु सच्चंपि जं न वत्तव्वं । सच्चंपि तं न सच्चं, जं परपीडाकरं वयणं ।।१।।" [सम्बोधप्र. श्रा. व्रता. १६] . स च द्विविधः, स्थूलः सूक्ष्मश्च तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवश्च स्थूलः, तद्विपरीतः सूक्ष्मः । आह हि - "दुविहो अ मुसावाओ, सुहुमो थूलो अ तत्थ इह सुहुमो । परिहासाइप्पभवो, थूलो पुण तिव्वसंकेसा ।।१।।" [सम्बोधप्र. श्रा. व्रता. १७] श्रावकस्य सूक्ष्ममृषावादे यतना, स्थूलस्तु परिहार्य एव । तथा चावश्यकसूत्रम्"थूलगमुसावादं समणोवासओ पच्चक्खाइ, से अ मुसावाए पञ्चविहे पण्णत्ते, तंजहा-कण्णालिए १, गवालिए २, भोमालिए ३, णासावहारे ४, कुडसक्खे य ५” इति । [प्रत्याख्यानावश्यक सू. २, हारिभद्रीयवृत्ती प. ८२०]

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300