________________
૨૪૮
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | બ્લોક-૨૬ “कण्णागहणं दुपयाण, सूअगं चउपयाण गोवयणं । अपयाणं दव्वाणं, सव्वाणं भूमिवयणं तु ।।१।।" [सम्बोधप्र. श्रा. व्रता. १८] ननु यद्येवं तर्हि द्विपदचतुष्पदाऽपदग्रहणं सर्वसंग्राहकं कुतो न कृतम् ? सत्यम् कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन रूढत्वाद्विशेषेण वर्जनार्थमुपादानम्, कन्यालीकादौ च भोगान्तरायद्वेषवृद्ध्यादयो दोषाः स्फुटा एव, यत आवश्यकचूर्णी - __ "मुसावाए के दोसा? अकज्जन्ते वा के गुणा? तत्थ दोसा कण्णगं चेव अकण्णगं भणंतो भोगंतरायदोसा य, दुट्ठा वा आतघातं करेज्ज, कारवेज्जा वा, एवं सेसेसु भाणिअव्वा" [पच्चक्खाणावश्यकसूत्रे हारिभद्र्यां वृत्तौ प. ८२१] इत्यादि ।
तथा न्यस्यते रक्षणायान्यस्मै समर्प्यते इति न्यासः सुवर्णादिस्तस्य निह्नवोऽपलापस्तद्वचनं स्थूलमृषावादः, इदं चानेनैव विशेषेण पूर्वालीकेभ्यो भेदेनोपात्तम्, अस्य चादत्तादाने(नत्वे) सत्यपि वचनस्यैव प्राधान्यविवक्षणान्मृषावादत्वम् ४ । कूटसाक्ष्यं लभ्यदेयविषये प्रमाणीकृतस्य लञ्चामत्सरादिना कूटं वदतः 'यथाऽहमत्र साक्षी'ति अस्य च परकीयपापसमर्थकत्वलक्षणविशेषमाश्रित्य पूर्वेभ्यो भेदेनोपन्यासः ५ इति ।
अत्रायं भावार्थ:-मृषावादः क्रोधमानमायालोभत्रिविधरागद्वेषहास्यभयव्रीडाक्रीडारत्यरतिदाक्षिण्यमौखर्यविषादादिभिः संभवति, पीडाहेतुश्च सत्यवादोऽपि मृषावादः, सद्भ्यो हितं सत्यमिति व्युत्पत्त्या परपीडाकरमसत्यमेव यतः - “अलिअं न भासिअव्वं, अत्थि हु सच्चंपि जं न वत्तव्वं । सच्चंपि तं न सच्चं, जं परपीडाकरं वयणं ।।१।।" [सम्बोधप्र. श्रा. व्रता. १६] .
स च द्विविधः, स्थूलः सूक्ष्मश्च तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवश्च स्थूलः, तद्विपरीतः सूक्ष्मः । आह हि - "दुविहो अ मुसावाओ, सुहुमो थूलो अ तत्थ इह सुहुमो । परिहासाइप्पभवो, थूलो पुण तिव्वसंकेसा ।।१।।" [सम्बोधप्र. श्रा. व्रता. १७] श्रावकस्य सूक्ष्ममृषावादे यतना, स्थूलस्तु परिहार्य एव । तथा चावश्यकसूत्रम्"थूलगमुसावादं समणोवासओ पच्चक्खाइ, से अ मुसावाए पञ्चविहे पण्णत्ते, तंजहा-कण्णालिए १, गवालिए २, भोमालिए ३, णासावहारे ४, कुडसक्खे य ५” इति । [प्रत्याख्यानावश्यक सू. २, हारिभद्रीयवृत्ती प. ८२०]