Book Title: Dharm Sangraha Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૪
૨૨૧ इयमत्र भावना-कश्चित् पञ्चाणुव्रतानि प्रतिपद्यते, तथा किल पञ्चैकसंयोगाः, एकैकस्मिंश्च संयोगे द्विविधत्रिविधादयः षड् भङ्गाः स्युः, तेन षट् पञ्चभिर्गुण्यन्ते जाताः ३०, एतावन्तः पञ्चानां व्रतानामेकैकसंयोगे भङ्गाः, तथा एकैकस्मिन् द्विकसंयोगे ३६ भङ्गास्तथाहिआद्यव्रतसम्बन्ध्याद्यो भङ्गकोऽवस्थितो मृषावादसत्कान् षड् भङ्गान् लभते । एवमाद्यव्रतसम्बन्धी द्वितीयोऽपि यावत्षष्ठोऽपि भङ्गोऽवस्थित एव मृषावादसत्कान् षड् भगान् लभते, ततश्च षड् षड्भिर्गुणिताः ३६, दश चात्र विकसंयोगाः, अतः ३६ दशगुणिताः ३६० । एतावन्तः पञ्चानां व्रतानां द्विकसंयोगे भङ्गाः, एवं त्रिकसंयोगादिष्वपि भङ्गसङ्ख्याभावना कार्या । पञ्चमदेवकुलिकास्थापना
६ ५ ३० । ३६ १० ३६० । २१६ १० २१६० । १२९६ ५ ६४८० । ७७७६ १ ७७७६ । एवं सर्वासामपि देव कुलिकानां निष्पत्तिः स्वयमेवावसेया इयं च प्ररूपणाऽऽवश्यकनियुक्त्यभिप्रायेण कृता भगवत्यभिप्रायेण तु नवभगी । साऽपि प्रसङ्गतः प्रदर्श्यते । तथाहि-हिंसां न करोति मनसा १, वाचा २, कायेन ३ । मनसा वाचा ४, मनसा कायेन ५, वाचा कायेन ६ । मनसा वाचा कायेन ७, एते करणेन सप्त भङ्गाः १, एवं कारणेन २, अनुमत्या ३, करणकारणाभ्यां ४, कारणानुमतिभ्यां ५, करणानुमतिभ्यां ६, करणकारणानुमतिभिरपि ७ सप्त । एवं सर्वे मिलिता एकोनपञ्चाशद्भवन्ति एते च त्रिकालविषयत्वात् प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशं शतं भवन्ति । यदाह
३३३ २२२ १११ ३२१ ३२१ ३२१ १३३ ३९९ ३९९ । "मणवयकाइयजोगे, करणे कारावणे अणुमई अ । इक्कगदुगतिगजोगे, सत्ता सत्तेव गुणवन्ना ।।१।।

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300