________________
૧૭૪
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૨ विरतिक्रियाकरणं शास्त्रे निषिद्धम्, किन्तु पारमार्थिकाध्यवसायरूपो विरतिपरिणामः स हि असनपि विशुद्धव्रतग्रहणादिक्रियाकारिणां तन्माहात्म्यादेव तद्ग्रहणानन्तरं जायते, सँश्च परिवर्द्धते, नतु प्रतिपातशीलो भवति ।
अत एव क्षायोपशमिकानि गुणस्थानानि नास्मदादिबाह्यौदयिकक्रियाकृष्टान्यायान्तीतिबुद्ध्या सम्यग् क्रियायां नोदासितव्यम्, प्रयत्नेन तेषामपि सुलभत्वाद्, उपायाधीनत्वादुपेयस्य च न चैतत् स्वमनीषिकाविजृम्भितम्, यदाहुः श्रीहरिभद्रसूरिवराः पञ्चाशकप्रकरणे सम्यक्त्वव्रतपरिणामस्थैर्यार्थं विधेयगतोपदेशप्रस्तावे - "गहणादुवरि पयत्ता, होइ असन्तोऽवि विरइपरिणामो । अकुसलकम्मोदयओ, पडइ अवण्णाइं लिंगमिह ।।१।। तम्हा णिच्चसईए, बहुमाणेणं च अहिगयगुणम्मी । पडिवक्खदुगंछाए, परिणइआलोअणेणं च ।।२।। तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए अ । उत्तरगुणसद्धाए, एत्थ सया होइ जइअव्वं ।।३।। एवमसंतोवि इमो, जायइ जाओवि पडइ न कयावि । ता इत्थं बुद्धिमया, अपमाओ होइ कायव्वो ।।४।।" [१/३५-८]
आसां व्याख्या-“ग्रहणाद्="गुरुमूले श्रुतधर्मे"त्यादिविधिना सम्यक्त्वव्रतोपादानादुपरि उत्तरकाले प्रयत्नादुद्यमविशेषाद्धेतोर्भवति जायते, असन्नपि कर्मदोषादविद्यमानोऽपि, संस्तु भूत एवेत्यपिशब्दार्थः कोऽसावित्याह"विरतिपरिणामः" प्राणातिपातादिनिवर्त्तने पारमार्थिकाध्यवसायः, उपलक्षणत्वात् सम्यक्त्वपरिग्रहणम्, सोपक्रमत्वाद्विरत्याद्यावारककर्मणाम्, तथाविधप्रयत्नस्य च तदुपक्रमणस्वभावत्वादिति । अथोक्तविपर्ययमाहअकुशलकर्मोदयतोऽशुभकर्मोपायादिकर्मानुभावात्पतति सन्नपि व्रतग्रहणस्योपरि प्रयत्नं विना अपयाति विरतिपरिणाम इति प्रकृतम् ।
तत्प्रतिपातश्च लिङ्गेनावसीयते तदेवाह-अवर्णो व्रतानां व्रतदेशकानां व्रतवतां वा अश्लाघा अवज्ञा वा अनादर आदिर्यस्य तदवर्णादि अवज्ञादि वा आदिशब्दात्तद्रक्षणोपायाऽप्रवृत्त्यादि च लिङ्गं लक्षणमिह व्रतपरिणामपरिपात इति । न च वाच्यं-"विरतिपरिणामाभावे कथं व्रतग्रहणम् ? इति, उपरोधादिना तस्य सम्भवात् श्रूयन्ते ह्यनन्तानि द्रव्यतः श्रमणत्वश्रावकत्वोपादानानीति प्रथमगाथार्थः ।
प्रस्तावितोपदेशमेवाह-"तम्हा"गाहा “तित्थंकर"गाहा । यस्मादसन्नपि विरतिपरिणामः प्रयत्नाज्जायते, प्रयत्न विना चाऽकुशलकर्मोदयात् सन्नपि प्रतिपतति, तस्मात्कारणात् नित्यस्मृत्या सार्वदिकस्मरणेन भवति सम्बन्धः