________________
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર / બ્લોક-૨૨
૧૭૫ यतितव्यमिति । तथा बहुमानेन भावप्रतिबन्धेन, चशब्दः समुच्चये, अधिकृतगुणेऽङ्गीकृतगुणे सम्यक्त्वाणुव्रतादौ, इदं च पदं पूर्वपदाभ्यामुत्तरपदेन च सह प्रत्येकं योज्यते । तथा “प्रतिपक्षजुगुप्सया" मिथ्यात्वप्राणिवधायुद्वेगेन तथा “परिणत्यालोचनेन" अधिकृतगुणविपक्षभूता मिथ्यात्वप्राणातिपातादयो दारुणफलाः, अधिकृतगुणा वा सम्यक्त्वाऽणुव्रतादयः परमार्थहेतव एव इत्येवं विपाकपर्यालोचनेन, चशब्दः समुच्चय एव ।
तथा “तीर्थकरभक्त्या" परमगुरुविनयेन तथा “सुसाधुजनपर्युपासनया" भावयतिलोकसेवया, चशब्दः समुच्चय एव तथा “उत्तरगुणश्रद्धया" प्रधानतरगुणाभिलाषेण, सम्यक्त्वे सति अणुव्रताभिलाषेण, अणुव्रतेषु सत्सु महाव्रताभिलाषेणेतिभावः, चशब्दः समुच्चय एव, “अत्र" सम्यक्त्वाऽणुव्रतादिव्यतिकरे तत्प्रतिपत्त्युत्तरकालं “सदा" सर्वकालं "भवति" युज्यते, यतितव्यमुद्यमः कर्त्तव्यः, इति गाथात्रयार्थः ।
"एवमसन्तो” गाहा, एवमसन्नपि व्रतग्रहणकाले "इमो"त्ति अयं व्रतपरिणामो जायते । जातोऽपि व्रतग्रहणकाले न पतति कदापि, तस्मादत्र व्रतग्रहणादिविधावप्रमादः कर्त्तव्यो भवतीति चतुर्थगाथार्थः ।
एवं च विरतेरभ्यासेनाविरतिर्जीयते, अभ्यासादेव हि सर्वक्रियासु कौशलमुन्मीलति, अनुभवसिद्धं चेदं लिखनपठनसङ्ख्यानगाननृत्यादिसर्वकलाविज्ञानेषु सर्वेषाम्, उक्तमपि - "अभ्यासेन क्रियाः सर्वा, अभ्यासात्सकलाः कलाः । अभ्यासाद्ध्यानमौनादि, किमभ्यासस्य दुष्करम् ? ।।१।।" निरन्तरं विरतिपरिणामाभ्यासे च प्रेत्यापि तदनुवृत्तिः स्यात् । यत उक्तम्"जं अब्भसेइ जीवो, गुणं च दोसं च एत्थ जम्ममी । तं पावइ परलोए, तेण य अब्भासजोएणं ।।१।।"
तस्मादभ्यासेन तत्परिणामदाढये यथाशक्ति द्वादशव्रतस्वीकारः, तथा सति सर्वागीणविरतेः संभवाद्, विरतेश्च महाफलत्वात् अन्येऽपि च नियमाः सम्यक्त्वयुक्तद्वादशान्यतरव्रतसंबद्धा एव देशविरतित्वाभिव्यञ्जकाः अन्यथा तु प्रत्युत पार्श्वस्थत्वादिभावाविर्भावकाः । यत उपदेशरत्नाकरे__ "सम्यक्त्वाणुव्रतादिश्राद्धधर्मरहिता नमस्कारगुणनजिनार्चनवन्दनाद्यभिग्रहभृतः श्रावकाभासाः श्राद्धधर्मस्य पार्श्वस्थाः" इति ।।२२।। टोडार्थ :
अत्र च ..... पार्श्वस्थाः' इति ।। मने सही श्रा494मां, स्वीयेला सम्यवाणा पुरुष 43 આદિથી જ નિયમપૂર્વક તે પ્રકારે અભ્યાસ કરવો જોઈએ. જે પ્રકારે ‘શ્રાદ્ધવિધિ વૃત્તિમાં કહેવાયું છે ते मा प्रमाणे -
પૂર્વમાં મિથ્યાત્વનો ત્યાગ કરવો જોઈએ=સમ્યક્ત સ્વીકારીને શ્રાવકાચાર પાળતી વખતે ક્યારેય પણ જિનવચનમાં