________________
श्रीबप्पटिसूरिकृता. महाकालीदेव्याः स्तुतिः
या द्युतिविजिततमाला
पविफलघण्टाक्षभृल्लसत्ततमाला । नृस्था सुषमं तनुता
दसौ 'महाकाल्य'मर्त्यसामन्तनुता ॥ ४ ॥ ११ ॥-आर्या०
१२ श्रीवासुपूज्यजिनस्तुतयः
अथ श्रीवासुपूज्यस्य महिमा
श्रीमते 'वासुपूज्याय', ज्यायसे जगतां नमन् । न मन्दोऽपि क्षणादेव, देवपूज्यो न जायते? ॥१॥
-अनुष्टुब् तीर्थकराणामभ्यर्थना
ये नापिताः सुरुचितै-रुचितैर्दानवारिभिः।
वारिभिर्वितते मेरौ, ते मे रौद्रं हरन्त्वघम् ॥ २ ॥-अनुष्टुब् जिनवाणीविचारः
अनादिनिधनाऽदीना, धनादीनामतिप्रदा।
मतिप्रदानमादेया-ऽनमा देयाजिनेन्द्रवाक् ॥३॥-अनुष्टुब् गौरीदेव्याः स्तुतिः
सौवर्णपट्टा श्रीगौरी, श्री गौरी' पद्महस्तिका । हस्तिकाया महागोधा-ऽऽगोधामध्वस्तयेऽस्तु वः ॥ ४ ॥१२॥-अनुष्टुब्
१३ श्रीविमलजिनस्तुतयः
अथ श्रीविमलनाथस्य संस्तवनम् -
निजमहिमविजितकमलं
प्रमदभरानम्रदेवपूजितकमलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org