Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 313
________________ २०७ श्रीबप्पभट्टिसूरिचरितम् सूरिराह "दुण्डंपि कवालचडुयं च काया विलुम्पंति ॥ १॥" इति । आमः श्रुत्वा चमत्कृतः । अहो ! सर्वज्ञपुत्रका एते ॥ अन्यदा कोऽपि चित्रकृद् भूपरूपं लिखित्वोपभूपं गतः। बप्पमहिना श्लाधिता तत्कला । नृपात् तेन टङ्ककलक्षं लेभे । लेप्यमयबिम्बचतुष्टयं कारितम् । एकं मथुरायां एक मोढेरकवसतिकायां [अणहिलपुरे ] एकं गोपगिरौ एकं सतारकाख्यपुरे । तत्र तत्र प्रतिष्ठाभावनाः कारिताः । अन्यदपि वह्वकारि ॥ __ अथामगृहे पुत्रो जातः सुलक्षणः । सोत्सवं तस्य दुन्दुक इति नाम प्रतिष्ठितम् । सोऽपि युवत्वे तेस्तैर्गुणः पप्रथे । एकदा समुद्रसेनभूपाधिष्ठितं राजगिरिनामकं दुर्ग आमो रुरोध । अमितं सैन्यं कुद्दालादिसामग्री भैरवादयो यन्त्रभेदाः कृताः । प्राकारोऽतिबलेन प्रपातयितुमारेभे, नापतत् । आमः खिन्नः, तेन सूरयः पृष्टाः । अयम_लिहः प्राकारः कदाऽस्माभिहीष्यते ? । सूरिर्बभाण-तव पुत्रपुत्रो भोजनामा अमुं प्राकारं दृक्पातमात्रेण पातयिष्यति, अन्यो नैव । आमस्त्यक्तारम्भः प्राकाराद् बहिद्वादशाब्दीमस्थात् । शत्रुदेशमात्मसाच्चके । दुन्दुकगृहे पुत्रो जातस्तस्य भोज इति नाम ददौ । स जातमात्रो पर्यङ्किकान्यस्तो दुर्गद्वारापमानीतः प्रधानैः, तदृक्प्रपातमात्रेण प्राकारः खण्डशो विशीर्णः । समुद्रसेनभूपो धर्मद्वारेण निःसृतः । आमो राजगिरिमविशत्, प्रजाभारो नारोपितः । अक्रूरा हि जैनराजर्षयः दयापरास्ते, रात्रौ आमाय राजगिर्यधिष्ठायकेन आभणितम्-राजन् ! यदि त्वमत्र स्थास्यसि तदा तव लोकं हनिष्यामि। आमः प्रत्यूचे-लोकेन हतेन किं ते फलं ? यदि हनिष्यसि तदा मामेव घातय । एतन्निर्भयमामवचः श्रुत्वा तुष्टो व्यन्तर उवाच-प्रीतोऽस्मि ते सत्त्वेन, याचस्व किंचित् , राज्ञोचे-न किमपि न्यूनं, केवलं कदा मे मृत्युः ? बृहीदम् । व्यन्तर उवाच-पण्मासावशेषे आयुषि वक्ष्यामि, पुनराययौ सः, राज्ञोक्तं कियन्मे आयुः, व्यन्तरो वदति-देव ! "गङ्गान्तागधे तीर्थे, नावा वै तरतः सतः । मकाराद्यक्षरग्रामो-पकण्ठे मृत्युरस्ति ते ॥१॥"-अनु० । पण्मासान्त इति विद्याः, पानीयान्निर्गच्छन्तं धूमं यदा द्रक्ष्यसि तदा मृत्युर्ज्ञातव्यः। साधना च कार्या पारलौकिकी इति गदित्वा ततो देवो गतः । राजा प्रातः सूरिपाचं गतः। सूरिरुवाच-राजन् ! यद् व्यन्तरेण तवाग्रे कथितं आयुःप्रमाणं तत् तथैव, धर्मपाथेयं गृह्णीयाः। तदाकण्य भूपस्तुतोष विसिष्मिये च । अहो ज्ञानमथवा विस्मयः एव का? शूरः तेजस्वी, इन्दुराह्लादकः, गङ्गाम्भः पावनं, जैना ज्ञानिन इति ॥ दिनद्वये गते सूरिः श्रीआमस्य पुरः प्रसङ्गेन श्रीनेमिनाथस्याशीर्वादं पपाठ १ छाया द्वयोरपि कपालचाटुकं च काका विलुम्पन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348