Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
समासविग्रहः।
૨૨૭
३४-शकुन्तेषु वरः शकु० 'तत्पुरुषः', कलशश्च कुन्तश्च शकुन्तवरश्च कलश. 'इतरेतरद्वन्द्वः', कलशकुन्तशकुन्तवरैः अङ्कितानि कलश० 'तत्पुरुषः', क्रमाणां तलानि क्रम० 'तत्पुरुषः', कल शकुन्तशकुन्तवराङ्कितानि क्रमतलानि येषां ते कलश. 'वहुव्रीहिः' । मतस्य लाभः मत० 'तत्पुरुषः', मतलाभं कुर्वन्तीति मत० 'उपपद'समासः । विशेषेण गतः विगतः 'पादि'समासः, विगतो रागो येषां ते विगत 'बहुव्रीहिः', अतिशयेन विगतरागा: विगत । न विद्यते अन्तो यस्य तद् अनन्तं 'बहुव्रीहिः', तद् अनन्तम् । न विद्यते अङ्गं यस्य सः अनङ्गः 'बहुव्रीहिः', अनङ्गं जयन्तीति अनङ्ग 'उपपद'समासः॥
३५-अवमानि एव सन्तमसं अव० 'कर्मधारयः', तद् अव० । आगमानां रोचिषः आगम० 'तत्पुरुषः', तेषां आगम० । पावनं च पालनं च पावन० 'समाहारद्वन्द्वः', भुवनस्य पावनपालनं भुवन० 'तत्पुरुपः', तद् भुवन० । जिनानां मतं जिन० 'तत्पुरुषः', तत् जिन०॥
३६-आयत्या सहितं सायति 'बहुव्रीहिः', सायति च तत् साम च सायति० 'कर्मधारयः', सायतिसाम करोतीति सायति० 'उपपद'समासः । शोभनश्चासौ तरुश्च सुतरुः 'कर्मधारयः', तेन सुतरुणा । तरुणं च तद् अब्जं च तरुणा० 'कर्मधारयः', तरुणाब्जेन समा तरुणा० 'तत्पुरुषः', तरुणाजसमा घुतिर्यस्याः सा तरुणा० 'बहुव्रीहिः' । कजे गता कजः 'तत्पुरुषः' । मुदा सहितं समुद् 'बहुव्रीहिः' तेन समुदा । अतिशयेन मता अति० 'प्रादि'समासः॥
३७-देवानां लोकः देव० 'तत्पुरुषः', देवलोकस्य उपमानं यस्य स देव० 'बहुव्रीहिः'। नराणां लोकः नर० 'तत्पुरुषः' । कोपश्च मानश्च कोपमानौ 'इतरेतरद्वन्द्वः', न विद्यते कोपमानौ यस्य सः अकोप० 'बहुव्रीहिः' । सलिलानां धारा सलिल. 'तत्पुरुषः', ऋजिमैव सलिलधारा ऋजिम० 'कर्मधारयः', ऋजिमसलिलधारया धौतः ऋजिम० 'तत्पुरुषः', मायैव परागः माया० 'कर्मधारयः', ऋजिमसलिलधौतः मायापरागो यस्य स ऋजिम 'बहुव्रीहिः । भवस्य भीतिः भव० 'तत्पुरुषः', तस्याः भव० । अपगतो रागो यस्य सः अप० 'बहुव्रीहिः ॥
३८-दिव्यानि च तानि राजीवानि च दिव्य० 'कर्मधारयः', दिव्यराजीवानां वारः दिव्य० 'तत्पुरुषः', चरणमेव सरोजं चरण 'कर्मधारयः', दिव्यराजीववारे स्थितं दिव्य० 'तत्पुरुषः', दिव्यराजीववारस्थितं चरणसरोजं यस्य स दिव्य० 'बहुव्रीहिः', तं दिव्य। भव्यानां राजी भव्य० 'तत्पुरुषः' । जिनेषु वरा जिन० 'तत्पुरुषः', जिनवराणां विसरः जिन० 'तत्पुरुषः', तं जिन । पापानां विध्वंसः पाप० 'तत्पुरुषः', पापविध्वंसे दक्षः पाप० 'तत्पुरुषः', तं पाप० । सन्ति अक्षाणि यस्य स सदक्षः 'बहुव्रीहिः', तं सदक्षम् ॥ __३९-अरय एव तिमिराणि अरि० 'कर्मधारयः', अरितिमिराणां ओघः अरि० 'तत्पुरुषः', अरितिमिरौघस्य व्याहतिः अरि० 'तत्पुरुषः', तस्यां अरि० । बहवो विधा येसां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348