Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
समासविग्रहः ।
૨૩૫ प्रभा० 'इतरेतरद्वन्द्वः', विशाला बलप्रभामतयो यस्य स विशाल. 'बहुव्रीहिः', विशालबलप्रभामतिकश्चासौ वीरश्च विशाल. 'कर्मधारयः', विशालबलमतिकवीरस्य मतं विशाल० 'तत्पुरुषः', तस्मिन् विशाल०॥
८०-श्रुतानां निधिः श्रुत० 'तत्पुरुषः', श्रुतनिधेः ईशिनी श्रुत० 'तत्पुरुषः', तत्सं० श्रुत० । बुद्धय एव वनानि बुद्धि० 'कर्मधारयः', बुद्धिवनानां आवली बुद्धि० 'तत्पुरुषः', बुद्धिवनावल्यां दव इव बुद्धि० 'कर्मधारयः', तद् बुद्धि० । न विद्यते उत्तमं यस्मात् तत् अनु० 'बहुव्रीहिः', अनुत्तमं च तत् सारं च अनु० 'कर्मधारयः', अनुत्तमसारेण चिता अनु० 'तत्पुरुषः' । भवानां भियः भव० 'तत्पुरुषः', तासां भव० । अवमं नुदतीति अवम० 'उपपद'समासः । रचिता आपदो येन तद् रचिता० 'बहुव्रीहिः', तद् रचिता०॥
८१-दूयमानाश्च ते मनुजाश्च दूय कर्मधारयः', दूयमानमनुजैः नतः दूय० 'तत्पुरुषः', तं दूय० । सुखानि एव कुमुदानि सुख० 'कर्मधारयः', सुखकुमुदानां ओघः सुख० 'तत्पुरुषः', सुखकुमुदौघस्य विकाशः सुख० 'तत्पुरुषः', तस्मिन् सुख० । जनतायाः अनु अनुजनतम् 'अव्ययीभावः ॥
८२-भव्यश्चासौ जनश्च भव्य० 'कर्मधारयः', तं भव्य० । अजिनं च अस्थि च अजिना० 'इतरेतरद्वन्द्वः', अजिनास्थिभ्यां रहिताः अजिना० 'बहुव्रीहिः' । शोभनः स्थायः (?) सुस्थायः 'प्रादि'समासः' तस्मिन् सुस्थाये । स्थिरं हितं यस्मिन् स स्थिर० 'बहुव्रीहिः' स्थिरहित आयो यस्मिन् स स्थिर० 'बहुव्रीहिः', तस्मिन् स्थिर० ॥
८३-जिनस्य शासनं जिन० 'तत्पुरुषः' । विशदानि च तानि प्रतिभानानि च विशद० 'कर्मधारयः', वप्राश्च भङ्गाश्च वप्र० 'इतरेतरद्वन्द्वः', विशदप्रतिभानानां वप्रभङ्गा यस्मिन् तद् विशद० 'बहुव्रीहिः' । त्रयाणां जगतां समाहारः त्रिजगत् 'द्विगु समासः, तत् त्रिजगत् । भव एव कान्तारं भव० 'कर्मधारयः', तद् भव० । नवा चासौ प्रभा च नव० 'कर्मधारयः', भा च नवप्रभा च भानवप्रभं 'समाहारद्वन्द्वः', अप्रतिस्पर्धि भानवप्रभं यस्य तद् अप्रति० 'बहुव्रीहिः ॥
८४-असिश्च कार्मुकं च असि. 'इतरेतरद्वन्द्वः', असिकार्मुकाभ्यां जितं असि० 'तत्पुरुषः', असिकार्मुकजितं आहवं यया सा असि० 'बहुव्रीहिः' । अतिशयितं यानं अति. 'प्रादि'समासः, तद् अति०॥
८५-चिरं परिचिता चिर० 'प्रादि'समासः, चिरपरिचिता चासौ लक्ष्मीश्च चिर० 'कर्मधारयः', तां चिर० । अमरैः सदृशाः अमर० 'तत्पुरुषः', अमरसदृशाश्च ते माश्च अमर० 'कर्मधारयः', अमरसदृशमा आवर्जिता यया सा अमर० 'बहुव्रीहिः', तां अमर । भव एव जलधिः भव० 'कर्मधारयः', भवजलधौ निमजन्तः भव० 'तत्पुरुषः', भवजलधिनिमजन्तश्च ते जन्तवश्च भव० 'कर्मधारयः', निर्गतो व्याजो यस्मात् स नियाजः 'बहु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348