Book Title: Chaturvinshatika
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 339
________________ समासविग्रहः। ૨૩૩ ६३-न उपतापि अनु० 'नजतत्पुरुषः'। समाधिं करोतीति समाधि० 'उपपद'समासः । जिनस्य इदं जैनं, जैनं च तद् वचः जैन० 'कर्मधारयः' । रसा आदौ येषां ते रसा० 'बहुव्रीहिः', रसादयश्च ते भोगाश्च रसा० 'कर्मधारयः', अतिशायितानि लोलानि अति० 'प्रादि'समासः, रसादिभोगेषु अतिलोलानि रसा. 'तत्पुरुषः', रसादिभोगातिलोलानि च तानि करणानि च रसा० 'कर्मधारयः', न नवा अनवाः 'नञ्तत्पुरुषः', अनवाश्च ते चोराश्च अनव० 'कर्मधारयः', रसादिभोगातिलोलकरणानि एव अनवचोराः रसा० 'कर्मधारयः', रसादिभोगातिलोलकरणानां सादि रसा. 'तत्पुरुषः ॥ ६४-गदा च अक्षश्च गदा० 'समाहारद्वन्द्वः', तद् गदा० । दृशि पतितं दृक्० 'तत्पुरुषः', दृक्पतितं च तद् अञ्जनं च दृक्० 'कर्मधारयः', तस्य दृक् । आमोदेन लोलाः आमोद० 'तत्पुरुषः', मुखराश्च ते उपरिपातुकाश्च मुखरो० 'कर्मधारयः', आमोदलोलाश्च ते मुखरोपरिपातुकाश्च आमोद० 'कर्मधारयः', आमोदलोलमुखरोपरिपातुका अलिनो यस्मिन् स आमोद० । यस्याः आसनं यदा० 'तत्पुरुषः ॥ ६५-महान् चासो मोहश्च महा० 'कर्मधारयः', महामोह एव तमः महा० 'कर्मधारयः', तत् महा० । न क्षमाः अक्षमाः 'नञ्तत्पुरुषः', तेषां अक्ष० । अतिशायि कृच्छं अति. 'प्रादि'समासः, तस्मात् अति । शिवतायाः पदं शिवता० 'तत्पुरुषः', तस्मिन् शिवता० ॥ ६६-संसारो रूपं यस्य स संसार 'बहुव्रीहिः' । सुष्छु बृहन् सुबृहन् 'प्रादि'समासः। पीडानां निवहः पीडा० 'तत्पुरुषः', तं पीडा०। येषां दर्शनं यद० 'तत्पुरुषः', तस्माद् यद्द०॥ ६७-दुष्कृतानि एव पर्वताः दुष्कृत० 'कर्मधारयः', तेषां दुष्कृत० । निर्वाणस्य दानं निर्वाण 'तत्पुरुषः', तस्मात् निर्वाण । पर्वणां तानः पर्व० 'तत्पुरुषः', कृतः पर्वतानो यया सा कृत० 'बहुव्रीहिः', तां कृत० । जिनेषु इन्द्राः जिने० 'तत्पुरुषः', जिनेन्द्राणां वाणी जिने० 'तत्पुरुषः', तां जिने । न वदन्ति (परवादिनः) यस्यां सा अवदा 'बहुव्रीहिः', न तनिष्ठा अतनिष्ठा 'नञ्तत्पुरुषः', अवदा चासौ अतनिष्ठा च अवदा० 'कर्मधारयः', तां अवदा० । सुठु अवदाता स्वव० 'प्रादिसमासः, स्ववदातो निष्ठो यस्याः सा स्वव० 'बहुव्रीहिः॥ ६८-इन्द्रस्य शस्त्रं इन्द्र० 'तत्पुरुषः', घण्टा च इन्द्रशस्त्रं च घण्टे० 'समाहारद्वन्द्वः', तद् घण्टे । फलं च अक्षमाला च फला० 'इतरेतरद्वन्द्वः', फलाक्षमालाभ्यां सहितं सफला० 'बहुव्रीहिः', तत् सफला० । नरि तिष्ठतीति नृस्था 'उपपद'समासः । तमालस्य इव कान्ता तमाल० 'मध्यमपदलोपि'समासः । न समाः असमाः 'नञ्तत्पुरुषः', अलकानां अन्ताः अलका० 'तत्पुरुषः', असमा अलकान्ता यस्याः सा असमा० 'बहुव्रीहिः॥ ६९-नवं रञ्जनं यासां ताः नव० 'बहुव्रीहिः', ताः नव० । जिनेषु वरः जिन 'तत्पुरुषः', तं जिन० ॥ ७०-सन्ति मनांसि येषां ते सद्मनसः 'बहुव्रीहिः', सद्मनसः एव पादपा यस्यां सा ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348